छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःद्वितीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ५ ॥
रैक्व इदं गवां सहस्रम् अयं निष्कः अयमश्वतरीरथः इयं जाया जायार्थं मम दुहिता आनीता अयं च ग्रामः यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः ; तदेतत्सर्वमादाय अनुशाध्येव मा मां हे भगवः, इत्युक्तः तस्या जायार्थमानीताया राज्ञो दुहितुः ह एव मुखं द्वारं विद्याया दाने तीर्थम् उपोद्गृह्णन् जानन्नित्यर्थः । ‘ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः । विद्यया वा विद्यां प्राह तीर्थानि षण्मम’ ( ? ) इति विद्याया वचनं विज्ञायते हि । एवं जानन् उपोद्गृह्णन् उवाच उक्तवान् । आजहार आहृतवान् भवान् इमाः गाः यच्चान्यद्धनं तत्साध्विति वाक्यशेषः शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत् । अनेनैव मुखेन विद्याग्रहणतीर्थेन आलापयिष्यथाः आलापयसीति मां भाणयसीत्यर्थः । ते ह एते ग्रामा रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्वः, तानसौ ग्रामानदादस्मै रैक्वाय राजा । तस्मै राज्ञे धनं दत्तवते ह किल उवाच विद्यां सः रैक्वः ॥

विद्यादाने तस्या द्वारत्वं तद्दातुश्च वरज्ञानदानतीर्थतां जानन्नुवाचेति सम्बन्धः । धनदातुर्विद्यादानतीर्थत्वे प्रमाणमाह –

ब्रह्मचारीति ।

तस्या द्वारतां विद्यादाने तद्दातुस्तीर्थतां च जानन्नुवाचेत्युक्तमनुवदति –

एवं जानन्निति ।

किमुक्तमित्यपेक्षायामाह –

आजहारेति ।

तत्र वैधर्म्यदृष्टान्तमाह –

पूर्ववदिति ।

अल्पधनहरणानिच्छायां कारणापेक्षायां शूद्रेति सम्बोधनवदित्यर्थः ।

रैक्वेण ग्रामादिकं गृहीत्वा विद्या जानश्रुतये दत्तेत्यस्मान्प्रति श्रुतिर्ज्ञापयति –

ते हैत इति ।

महावृषेषु महापुण्येष्विति यावत् ॥४ -५॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वितीयः खण्डः ॥