छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ५ ॥
अथ एतयोः स्तुत्यर्थम् इयमाख्यायिका आरभ्यते । हेत्यैतिह्यार्थः । शौनकं च शुनकस्यापत्यं शौनकं कापेयं कपिगोत्रमभिप्रतारिणं च नामतः कक्षसेनस्यापत्यं काक्षसेनिं भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैः ब्रह्मचारी ब्रह्मविच्छौण्डो बिभिक्षे भिक्षितवान् । ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मै उ भिक्षां न ददतुः न दत्तवन्तौ ह किमयं वक्ष्यतीति ॥

अथ हेत्याद्यनन्तरवाक्यं व्याचष्टे –

अथैतयोरिति ।

ब्रह्मविच्छौण्डो ब्रह्मविदां मध्ये शूरमात्मानं मन्यमान इति यावत् । बुद्ध्वा लिङ्गविशेषेणेति शेषः ।

जिज्ञासमानावित्युक्तमेव व्यनक्ति –

किमयमिति ॥५॥