छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥ ६ ॥
स ह उवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहुवचनम् । देव एकः अग्न्यादीन्वायुर्वागादीन्प्राणः । कः सः प्रजापतिः जगार ग्रसितवान् । कः स जागरेति प्रश्नमेके । भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः सर्वो लोकः तस्य गोपाः गोपायिता रक्षिता गोप्तेत्यर्थः । तं कं प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मर्त्याः मरणधर्माणोऽविवेकिनो वा हे अभिप्रतारिन् बहुधा अध्यात्माधिदैवताधिभूतप्रकारैः वसन्तम् । यस्मै वै एतत् अहन्यहनि अन्नम् अदनायाह्रियते संस्क्रियते च, तस्मै प्रजापतये एतदन्नं न दत्तमिति ॥

चतुर इति द्वितीयाबहुवचनदर्शनान्महात्मन इति तादृगेवेत्याह –

द्वितीयेति ।

यद्वा महात्मन इत्यस्य पञ्चम्यादौ चतुर इत्यस्य च समीचीने प्रयोगदर्शनादिह तथा मा भूदिति मत्वाऽऽह –

महात्मन इति ।

अतो हि जगारेति सम्बन्धः ।

कः शब्दः प्रजापतिविषयो व्याख्यातः । सम्प्रति पक्षान्तरमाह –

कः स इति ।

यस्ताञ्जगार स कः स्यादिति प्रश्नमेके वदन्तीत्यर्थः ।

अत्तारं प्राणमात्मानं चैकत्वेन पश्यन्ब्रह्मचारी मह्यं भिक्षां यन्न ददतुर्भवन्तौ तत्तस्मै देवायैव न ददतुरित्यज्ञत्वमेव तयोर्दर्शयन्नाह –

यस्मा इति ॥६॥