छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानां हिरण्यदꣳष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ७ ॥
तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानः मनसा आलोचयन् ब्रह्मचारिणं प्रत्येयाय आजगाम । गत्वा च आह यं त्वमवोचः नाभिपश्यन्ति मर्त्या इति, तं वयं पश्यामः । कथम् ? आत्मा सर्वस्य स्थावरजङ्गमस्य । किञ्च देवानामग्न्यादीनाम् आत्मनि संहृत्य ग्रसित्वा पुनर्जनयिता उत्पादयिता वायुरूपेणाधिदैवतमग्न्यादीनाम् । अध्यात्मं च प्राणरूपेण वागादीनां प्रजानां च जनिता । अथवा आत्मा देवानामग्निवागादीनां जनिता प्रजानां स्थावरजङ्गमानाम् । हिरण्यदंष्ट्रः अमृतदंष्ट्रः अभग्नदंष्ट्र इति यावत् । बभसो भक्षणशीलः । अनसूरिः सूरिर्मेधावी न सूरिरसूरिस्तत्प्रतिषेधोऽनसूरिः सूरिरेवेत्यर्थः । महान्तमतिप्रमाणमप्रमेयमस्य प्रजापतेर्महिमानं विभूतिम् आहुर्ब्रह्मविदः । यस्मात्स्वयमन्यैरनद्यमानः अभक्ष्यमाणः यदनन्नम् अग्निवागादिदेवतारूपम् अत्ति भक्षयतीति । वा इति निरर्थकः । वयं हे ब्रह्मचारिन् , आ इदम् एवं यथोक्तलक्षणं ब्रह्म वयमा उपास्महे । वयमिति व्यवहितेन सम्बन्धः । अन्ये न वयमिदमुपास्महे, किं तर्हि ? परमेव ब्रह्म उपास्महे इति वर्णयन्ति । दत्तास्मै भिक्षामित्यवोचद्भृत्यान् ॥

दर्शनमेव प्रश्नद्वारा विशदयति –

कथमित्यादिना ।

अधिदैवतमग्न्यादीनां वायुरूपेण जनितेति सम्बन्धः ।

तस्य प्राथमिकं [कत्वं] कृत्वा दर्शयति –

आत्मनीति ।

अग्न्यादीन्प्रलयकाले देवः स्वात्मनि वायुरूपेण ग्रसित्वा पुनरुत्पत्त्यवस्थायामुत्पादयितेति योजना ।

अध्यात्मं वागादीनपि स्वापावस्थायां स्वात्मनि प्राणरूपे संहृत्य पुनः प्रबोधावस्थायां तेषामुत्पादयिता देवः प्राणरूपेणेत्याह –

अध्यात्मं चेति ।

देवानामग्न्यादीनां प्रजानां वागादीनां च जनितेत्युक्तं सम्प्रति व्याख्यान्तरमाह –

अथ वेति ।

अभग्नदंष्ट्रः सर्वसंहर्तुरपि च काचन ग्लानिर्भवतीत्यर्थः ।

प्रजापतेर्महिम्नोऽतिप्रमाणत्वं प्रकटयति –

यस्मादिति ।

इतिशब्दात्परस्ताद्यच्छब्दस्य सम्बन्धः तदर्थश्च यस्मादित्युक्तस्तस्मात्प्रजापतेर्महिमानमतिप्रमाणमाहुरिति पूर्वेण सम्बन्धः ।

वै वयमित्यादिभागं पदच्छेदपूर्वकमादाय व्याचष्टे –

वयमित्यादिना ।

क्रियापदेन वयमित्यस्य सम्बन्धमुक्तमुपपादयति –

वयमिति ।

ब्रह्मचारिन्निदं वयमा समन्तादुपास्महे ब्रह्मेत्युक्त्वा प्रकारान्तरेण पदच्छेदपूर्वकं व्याख्यानान्तरमाह –

अन्ये नेति ।

शौनकस्याभिप्रतारिणश्च ज्ञानातिशयं दर्शयित्वा यतिश्च ब्रह्मचारी चेत्यादिस्मृतिमनुसृत्याऽऽह –

दत्तेति ॥७॥