छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःतृतीयः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतꣳ सैषा विराडन्नादी तयेदꣳ सर्वं दृष्टꣳ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ८ ॥
तस्मा उ ह ददुः ते हि भिक्षाम् । ते वै ये ग्रस्यन्ते अग्न्यादयः यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथा अन्ये तेभ्यः पञ्चाध्यात्मं वागादयः प्राणश्च, ते सर्वे दश भवन्ति सङ्ख्यया, दश सन्तः तत्कृतं भवति ते, चतुरङ्क एकायः एवं चत्वारस्त्र्यङ्कायः एवं त्रयोऽपरे द्व्यङ्कायः एवं द्वावन्यावेकाङ्कायः एवमेकोऽन्यः इत्येवं दश सन्तः तत्कृतं भवति । यत एवम् , तस्मात् सर्वासु दिक्षु दशस्वप्यग्न्याद्या वागाद्याश्च दशसङ्ख्यासामान्यादन्नमेव, ‘दशाक्षरा विराट्’ ‘विराडन्नम्’ इति हि श्रुतिः । अतोऽन्नमेव, दशसङ्ख्यत्वात् । तत एव दश कृतं कृतेऽन्तर्भावात् चतुरङ्कायत्वेनेत्यवोचाम । सैषा विराट् दशसङ्ख्या सती अन्नं च अन्नादी अन्नादिनी च कृतत्वेन । कृते हि दशसङ्ख्या अन्तर्भूता, अतोऽन्नमन्नादिनी च सा । तथा विद्वान्दशदेवतात्मभूतः सन् विराट्त्वेन दशसङ्ख्यया अन्नं कृतसङ्ख्यया अन्नादी च । तया अन्नान्नादिन्या इदं सर्वं जगत् दशदिक्संस्थं दृष्टं कृतसङ्ख्याभूतया उपलब्धम् । एवंविदः अस्य सर्वं कृतसङ्ख्याभूतस्य दशदिक्सम्बद्धं दृष्टम् उपलब्धं भवति । किञ्च अन्नादश्च भवति, य एवं वेद यथोक्तदर्शी । द्विरभ्यासः उपासनसमाप्त्यर्थः ॥

आख्यायिकाद्वारा प्रकृतायां संवर्गविद्यायामात्मा देवनामित्यादिगुणजातमुपदिश्य गुणान्तरमुपदेष्टुमनन्तरवाक्यमवतारयति –

ते वा इति ।

तद्व्याचष्टे –

ये ग्रस्यन्त इति ।

त एते वागादिभ्यः सकाशादन्ये पञ्चेति सम्बन्धः ।

अधिदैवतमग्न्यादीन्वायुसहितान्पञ्चोक्त्वा तेनैव प्रकारेणाध्यात्ममपि तेभ्यः सकाशादन्ये प्राणसहिता वागादयः पञ्च सन्तीत्याह –

तथेति ।

अवान्तरसंख्याविनिवेशमुक्त्वा तत्रैव महासंख्यानिवेशं दर्शयति –

ते सर्व इति ।

दशसंख्यासम्बन्धात्तेषां संख्ययेति ।

कृतायोपलक्षितं द्यूतं कृतमित्युच्यते । तत्र दशसंख्यावत्त्वस्य वक्तव्यत्वादिति द्रष्टव्यम् । यदुक्तमग्न्यादयो वागादयश्च दश सन्तस्तत्कृतं भवतीति तदुपपादयति –

चतुरङ्क इत्यादिना ।

एकस्तावदयो द्यूते चतुरङ्को दृश्यते तद्वदग्न्यादयो वागादयश्च ग्रस्यमानाश्चत्वारो भवन्ति । यथा च द्यूते त्रेतानामकोऽयस्त्र्यङ्को गृह्यते तथाऽग्न्यादयो वागादयश्चैकैकन्यूनास्त्रयः । तथा च द्वापरनामायो द्व्यङ्को जायते तद्वद्वागादिष्वग्न्यादिषु च द्वौ द्वौ वर्जयित्वा द्वौ द्वौ भवतः । तथा च तत्र कलिसंज्ञायो भवत्येकाङ्कः योऽग्न्यादीनां ग्रसिता वायुर्वागादीनां ग्रसिता प्राणश्चैकस्तेभ्यो ग्रस्यमानेभ्योऽन्य इत्येवं ग्रसितृत्वेन ग्रस्यमानत्वेन च दश सन्तस्ते पूर्वोक्तं कृतं भवतीत्यर्थः ।

द्यूतस्य सर्वान्नात्तृत्वप्रसिद्ध्या दशसंख्यावतां देवानां कृतत्वसम्पादनेनात्तृत्वं सम्पादितम् । इदानीं दशसंख्यावत्त्वेनैव विराट्त्वसम्पादनेन तेषामन्नत्वं सम्पादयति –

यत इति ।

अग्न्यादिषु वागादिषु च मिलितेषु दशसंख्यावत्त्वेऽपि कथमनेन तद्वत्त्वं तथा च कथं संख्यासामान्यं तेषामन्नसंख्यासामान्यसम्पादनमित्याशङ्क्याऽऽह –

दशाक्षरेति ।

विराड्दशसंख्यावती प्रसिद्धा सा चान्नमिति श्रूयते, तथा च यथोक्तेष्वग्न्यादिषु वागादिषु च समुदितेषु संख्यासामान्याद्विराट्त्वं सम्पाद्यान्नत्वसम्पादनं सुशकमित्याह –

अत इति ।

तेषु कृतत्वेनान्न(त्तृ?)त्वं सम्पादितमुपसंहरति –

तत एवेति ।

द्यूतस्यायचतुष्टयविशिष्टत्वेन कृतोपलक्षितेन तत्र दशसंख्यायाः सत्त्वात्तत एव संख्यासामान्यादग्न्यादयश्च कृतं भवति ततश्च तेषामत्तृत्वमित्युक्तमित्यर्थः ।

सम्प्रति प्रकृतेष्वग्न्यादिषु विराट्त्वमन्नत्वमिति त्रयमुपसंहरति –

सैषेति ।

विराजो विधेयत्वात्तस्याश्च स्त्रीलिङ्गतया सैषेति विधेयलिङ्गभजनम् । त एते प्रकृता देवा विराडित्यवगन्तव्याः । सा च दशदेवतात्मिका दशसंख्यावती भवत्यन्नमिति देवतानामन्नत्वसिद्धिः । अन्नादीत्यस्य विराजा सम्बन्धादन्नादिनीति व्याख्यानम् । ततश्च देवतात्मिका विराट्कृतत्वेनान्नादिनीति तदात्मकानामग्न्यादीनामप्यत्तृत्वसिद्धिरित्यर्थः ।

विराट्त्वेनान्नत्वं कृतत्वेनात्तृत्वं चेति सम्पत्तिद्वयमग्न्यादौ दर्शितमुपसंहरति –

कृते हीति ।

कृतोपलक्षिते द्यूते दशसंख्याऽन्तर्भूता प्रसिद्धा । सा चाग्न्यादौ दर्शिता । तथा च संख्यासामान्याद्द्यूतगतमत्तृत्वमग्न्यादिषु सम्पाद्यते तेनेदं दशकमन्नादीत्युच्यते विराड् वेदे दशसंख्यावतीत्युक्तम् । सा चान्नं , विराडन्नमित्युक्तत्वात् । ततश्च विराट्सम्पत्त्या भवति प्रकृतं दशकमन्नमित्यर्थः ।

सगुणं संवर्गदर्शनमुक्त्वा तत्फलं वक्तुं विद्वत्स्वरूपं सङ्गिरते –

तथेति ।

यथाऽग्न्यादीनां विराट्त्वेनान्नत्वं कृतत्वेन चान्नादत्वं तथा वायुमग्न्याद्यात्मकं प्राणं च वागाद्यात्मकमेकीकृत्याऽऽत्मत्वेन विद्वान्दशदेवतास्वरूपभूतः सन्दशसंख्याया विराट्त्वेनान्नं कृतशब्दितयुगं तद्गतदशसंख्यावच्छिन्नतया कृतत्वेनान्नादी भवतीत्यर्थः ।

फलोक्त्युपयोगित्वेनार्थान्तरमाह –

तयेति ।

कृतोपलक्षितद्यूतस्थसंख्यावच्छिन्नत्वेनावस्थितयाऽऽन्नत्वेनान्नादित्वेन व्यवस्थितया सर्वमिदं जगद्दशसु दिक्षु संस्थितं दृष्टमुपलब्धं भवति । न हि देवतादशकं हित्वा जगन्नाम किञ्चिदस्ति । तथा च दृष्टे देवतादशके दृष्टमेव सर्वं जगद्भवेदित्यर्थः ।

भूमिकामेवं कृत्वा फलं दर्शयति –

एवंविद इति ।

वायुं प्राणमत्तारमात्मत्वेन पश्यतः कृतसंख्यावच्छिन्नतया स्थितस्य दशदेवताभूतस्य सर्वं जगद्दृष्टं भवति । दृष्टदेवतातिरिक्तस्य जगतोऽभावादित्यर्थः । यो यथोक्तदर्शी प्राणो भूत्वा सर्वत्रान्नादश्च भवतीति फलान्तरम् ॥८॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य तृतीयः खण्डः ॥