छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तꣳ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣳ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रꣳ सम्पेदुः ॥ ५ ॥
तं ह उवाच गौतमः — नैतद्वचः अब्राह्मणे विशेषेण वक्तुमर्हति आर्जवार्थसंयुक्तम् । ऋजावो हि ब्राह्मणा नेतरे स्वभावतः । यस्मान्न सत्यात् ब्राह्मणजातिधर्मात् अगाः नापेतवानसि, अतः ब्राह्मणं त्वामुपनेष्ये ; अतः संस्कारार्थं होमाय समिधं सोम्य आहर, इत्युक्त्वा तमुपनीय कृशानामबलानां गोयूथान्निराकृत्य अपकृष्य चतुःशता चत्वारिशतानि गवाम् उवाच — इमाः गाः सोम्य अनुसंव्रज अनुगच्छ । इत्युक्तः ता अरण्यं प्रत्यभिप्रस्थापयन्नुवाच — नासहस्रेण अपूर्णेन सहस्रेण नावर्तेय न प्रत्यागच्छेयम् । स एवमुक्त्वा गाः अरण्यं तृणोदकबहुलं द्वन्द्वरहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास प्रोषितवान् । ताः सम्यग्गावः रक्षिताः यदा यस्मिन्काले सहस्रं सम्पेदुः सम्पन्ना बभूवुः ॥

ब्राह्मणस्य वाऽनृतं विना कथमार्जसंयुक्तवचनमित्याशङ्क्याऽऽह –

ऋजवो हीति ।

क्षत्रियादीनामपि केषाञ्चिदार्जवमस्तीत्याशङ्क्याऽऽह –

नेतर इति ।

ऋजुवचनत्वेन ब्राह्मणत्वं प्रतिजानीते –

यस्मादिति ।

उपनीयाध्याप्य चेति शेषः ।

तस्यानुग्रहार्थं शुश्रूषामादिष्टवानित्याह –

कृशानामिति ।

आचार्यनियोगश्च शिष्येण सफलीकर्तव्य इत्याशयेनाऽऽह –

इत्युक्त इति ।

सम्पन्ना बभूवुस्तदैनमृषभोऽभ्युक्तवानिति सम्बन्धः ॥५॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्थः खण्डः ॥