छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रꣳ स्मः प्रापय न आचार्यकुलम् ॥ १ ॥
तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्सम्बन्धिनी तुष्टा सती ऋषभमनुप्रविश्य ऋषभभावमापन्ना अनुग्रहाय अथ ह एनमृषभोऽभ्युवाद अभ्युक्तवान् सत्यकाम३ इति सम्बोध्य । तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ । प्राप्ताः सोम्य सहस्रं स्मः, पूर्णा तव प्रतिज्ञा, अतः प्रापय नः अस्मानाचार्यकुलम् ॥

कथमृषभः सत्यकामं प्रति वक्तुमलं न हि लोके बलीवर्दस्य मनुष्यं प्रति वचनं दृष्टमत आह –

तमेतमिति ।

सत्यकामं श्रद्धादिसम्पन्नमेनमथ तस्यामवस्थायामृषभोऽनुग्रहायाभ्युवादेति सम्बन्धः ।

ऋषभस्य स्वरूपमाह –

वायुदेवतेति ।

अरण्ये तत्र तत्र गाश्चारयतः श्रद्धापूर्वकं तपश्चरतो वायुदेवता कथं तुष्टेत्याशङ्क्याऽऽह –

दिक्सम्बन्धिनीति ॥१॥