ब्रह्मविदिव भासीत्युक्ते कीदृशी ब्रह्मविदित्यपेक्षायामाह –
प्रसन्नेन्द्रिय इति ।
सत्यकामस्यापि तल्लक्षणवत्त्वमतःशब्दार्थः ।
मां त्वदाचार्यमवज्ञाय मच्छिष्यं त्वां कोऽन्यो मनुष्यो मच्छापादभीतः शिष्यत्वेनाऽऽदायानुशासनं कृतवान्यदनुशासनात्ते ब्रह्मविद्या जातेति साक्षेपं पृच्छति –
कस्त्वामिति ।
मनुष्येभ्य सकाशादन्ये मामनुशिष्टवन्त इति सामान्यप्रतिज्ञां विभजते –
देवता इति ।
देवतानामेवोपदेष्टृत्वं व्यतिरेकद्वारा विशदयति –
कोऽन्य इति ।
प्रतिज्ञां निगमयति –
अत इति ।
मया तर्हीदानीं न किञ्चिदस्ति तव कर्तव्यमित्याशङ्कां वारयति –
भगवानिति ॥२॥