छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
श्रुतꣳ ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति ॥ ३ ॥
किञ्च श्रुतं हि यस्मात् मम विद्यते एवास्मिन्नर्थे भगवद्दृशेभ्यो भगवत्समेभ्यः ऋषिभ्यः । आचार्याद्धैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापति प्राप्नोति ; अतो भगवानेव ब्रूयादित्युक्तः आचार्यः अब्रवीत् तस्मै तामेव दैवतैरुक्तां विद्याम् । अत्र ह न किञ्चन षोडशकलविद्यायाः किञ्चिदेकदेशमात्रमपि न वीयाय न विगतमित्यर्थः । द्विरभ्यासो विद्यापरिसमाप्त्यर्थः ॥

इतश्च भगवानेव ब्रवीतु मे विद्यामित्याह –

किञ्चेति ।

तदेव कारणं दर्शयति –

श्रुतमिति ।

अस्मिन्नर्थं आचार्यादेव विद्या श्रौतव्यैवेत्येवंलक्षणे ।

श्रुतमेव विशदयति –

आचार्यादिति ।

विदिता प्राप्तेति यावत् । आचार्याधीना धीरेव फलवतीत्यतःशब्दार्थः । विद्यान्तरमाचार्येणोक्तमिति शङ्कामेवकारेण वारयति ।

दैवतैराचार्येण च सत्यकामायोक्तां विद्यामस्मान्प्रति श्रुतिर्ज्ञापयति –

अत्रेति ।

न विगतं किन्तु पूर्वेण विद्या वाय्वादिभिराचार्येण चोपदिष्टेति शेषः । तत्रापि पादचतुष्टयानुध्यानसमुच्चितमेकमेव विज्ञानं तत्फलं च संहृत्यैकविज्ञानफलत्वेन परिणेयमेकैकपादोपासनस्य कृतार्थत्वाहेतुत्वादित्याचार्योपदेशस्यैव सार्थकत्वमिति द्रष्टव्यम् ॥३॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य नवमः खण्डः ॥