तप्त इति ।
भवदपेक्षितां शुश्रूषां विदधानो बहुकायक्लेशं कृतवानित्यर्थः ।
विवक्षितशुश्रूषाकरणमेव विशदयति –
कुशलमिति ।
किमिति भवत्या मां ब्रूहीदमिदानीमुच्यते न हि मत्तोऽन्यत्र त्वदनुरागो युक्तिमानित्याशङ्क्य भगवति स्नेहादित्याह –
भगवानिति ।
अग्नीन्परिचरमाणब्रह्मचारिणोऽसमावर्तनमतःशब्दार्थः । गर्हापरिहारो द्वितीयेनातःशब्देन परामृश्यते ।
आचार्यशुश्रूषापरं शिष्यं देवतैवानुगृह्णातीति ज्ञापयितुमारभते –
तस्मा इति ॥२॥