छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ३ ॥
स ह उपकोसलः व्याधिना मानसेन दुःखेन अनशितुम् अनशनं कर्तुं दध्रे धृतवान्मनः । तं तूष्णीमग्न्यागारेऽवस्थितम् आचार्यजायोवाच — हे ब्रह्मचारिन् अशान भुङ्क्ष्व, किं नु कस्मान्नु कारणान्नाश्नासि ? इति । स ह उवाच — बहवः अनेकेऽस्मिन्पुरुषेऽकृतार्थे प्राकृते कामाः इच्छाः कर्तव्यं प्रति नाना अत्ययः अतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्ययाः व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखानीत्यर्थः ; तैः प्रतिपूर्णोऽस्मि ; अतो नाशिष्यामीति ॥

आचार्यभिप्रायमजानतः शिष्यस्य दुःखप्राप्तिं दर्शयति –

स हेति ।

अतिगमनं वस्तुस्वरूपमतीत्य विषयेषु प्रवेश इति यावत् । नानात्यया इति कामानां विशेषणम् ।

कथं तेन व्याधयो विशेष्यन्ते तत्राऽऽह –

कर्तव्येति ।

कामा एव व्याधय इत्यर्थः ॥३॥