छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥
उक्त्वा तूष्णीम्भूते ब्रह्मचारिणि, अथ ह अग्नयः शुश्रूषयावर्जिताः कारुण्याविष्टाः सन्तः त्रयोऽपि समूदिरे सम्भूयोक्तवन्तः — हन्त इदानीम् अस्मै ब्रह्मचारिणे अस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मः अनुप्रब्रवाम ब्रह्मविद्याम् , इति एवं सम्प्रधार्य, तस्मै ह ऊचुः उक्तवन्तः — प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥

आचार्यप्रवासात्तज्जायाया ब्रह्मचारिण्यनुग्रहात्तस्य चानशनाध्यवसायादनन्तरमित्यथशब्दार्थः । हन्तेति यद्यर्थः, अस्मद्भक्तं ब्रह्मचारिणमुपेक्ष्य देशान्तरं गतस्तर्हीति यावत् । अथ पुनरेत्याऽऽचार्यो ब्रह्मविद्यामस्मै विवक्षितां च वक्ष्यति किं त्वरयेत्याशङ्क्याऽऽह –

दुःखितायेति ।

ब्रह्मविद्यासाधनसम्पत्तिमस्य दर्शयति –

तपस्विन इति ॥४॥