प्राणो ब्रह्मेति भवद्भिरुक्तं तदहं विजानामीति सम्बन्धः । तत्र हेतुमाह –
प्रसिद्धेति ।
प्राणपदस्य प्रसिद्धार्थत्वमेव समर्थयते –
यस्मिन्निति ।
एवंभूतः प्राणशब्द इति शेषः ।
प्राणशब्दस्य प्रसिद्धार्थत्वेऽपि कुतो ब्रह्मत्वं तस्मिन्प्रसिद्धमित्याशङ्क्याऽऽह –
अत इति ।
कार्यकरणसंघाते नष्टेऽग्रहणादित्यतःशब्दार्थः । स्वकीयज्ञानसमुच्चयार्थश्चकारः ।
विजानाम्यहमित्युक्तमुपसंहरति –
तेनेति ।
स्वेनाज्ञातं ब्रह्मचारी दर्शयति –
कं चेति ।
तस्याज्ञानमाक्षिपति –
नन्विति ।
प्राणशब्दस्य वायुविशेषविषयत्वेन प्रसिद्धार्थत्ववदित्यपेरर्थः ।
ब्रह्मचारिणोऽभिप्रायं दर्शयन्नुत्तरमाह –
नूनमिति ।
ननु विरुद्धार्थत्वादग्नीनां वाक्यं भवत्वप्रमाणमित्याशङ्क्याऽऽह –
कथं चेति ।
विरुद्धार्थत्वप्रतीतेराप्तवाक्यस्य चाप्रामाण्यायोगाद्युक्तं ब्रह्मचारिणोऽज्ञानमिति निगमयति –
अत इति ।
स्वस्य विशेषणत्वं कस्य च विशेष्यत्वमित्यङ्गीकारे फलं कथयति –
इत्येवमिति ।
कस्य विशेषणत्वं स्वस्य विशेष्यत्वमित्येवमपि विशेषणविशेष्यत्वमवगन्तव्यमित्याह –
यदेवेति ।
यथोक्तविशेषणविशेष्यभावे फलमाह –
एवं चेति ।
यद्वावेत्यादिवाक्यार्थमुक्तमेव प्रतिपत्तिसौकर्यार्थं संक्षिपति –
सुखमिति ।
इतरेतरविशेषणविशेष्यत्वमाक्षिपति –
नन्विति ।
अन्यतरदेवेत्यत्र यदेव खमित्येतदुच्यते यद्वाव कं तदेव खमित्यत्र यद्वाव कमितीतरद्विशेषणमतिरिक्तमधिकमकिंचित्करमिति योजना । यदि तु यदेव खं तदेव कमिति खेन कं विशेष्यते, तदा यदेव खमित्येतदेव विशेषणमस्तु ।
यद्वाव कमिति पूर्वविशेषणमकिंचित्करमित्याह –
यदेवेति ।
वाशब्दोऽतिरिक्तमित्येतदनुकर्षणार्थः ।
विशेषणयोरर्थवत्त्वं पूर्वोक्तं सिद्धान्ती स्मारयति –
नन्विति ।
तथा च सुखस्य लौकिकसुखाद्व्यावृत्त्यर्थं यदेव खमिति विशेषणमाकाशस्य च लौकिकाकाशाद्व्यावृत्त्यर्थं यद्वाव कमिति विशेषणमर्थवदिति शेषः ।
अन्यतरविशेषणवशादपि यथोक्तव्यावृत्तिसिद्धेरकिंचित्करं विशेषणद्वयमिति शङ्कते –
सुखेनेति ।
यदा सुखेनाऽऽकाशं विशेष्यते तदा भूताकाशादाकाशं व्यावर्तितं भवति सुखस्य तद्विशेषणत्वायोगात् । सुखमपि लौकिकसुखाद्व्यवच्छिद्यते । लौकिकसुखस्याऽऽकाशविशेषणत्वानुपपत्तेः । अतः सुखेनाऽऽकाशस्याऽऽकाशेन सुखस्य वा विशेषितत्वसामर्थ्यात्प्राप्तैव सुखाकाशयोर्लौकिकसुखाकाशाभ्यां व्यावृत्तिरित्यन्यतरदेव विशेषणमर्थवदित्यर्थः ।
किमन्यतरस्यैव विशेषणस्य व्यावर्तकत्वमित्यापाद्यते किं वा तस्यैवार्थवत्त्वमिति तत्राऽऽद्यमङ्गीकरोति –
सत्यमेवमिति ।
द्वितीयं दूषयति –
न त्वित्यादिना ।
विशिष्टस्यैव ध्येयत्वे विशेषणस्यापि ध्येयत्वं सिद्ध्यतीति चेन्नैवं दण्डी प्रैषानन्वाहेतिवद्विशेषणस्यान्यथासिद्धत्वादित्याह –
विशेषणेति ।
द्वयोरपि विशेषणयोरर्थवत्त्वं निगमयति –
अत इति ।
विधान्तरेण ध्येयत्वासम्भवादित्यतःशब्दार्थः । खमिव सुखेनेत्यपेरर्थः ।
इतश्च सुखाकाशयोरितरेतरविशेषणविशेष्यत्वमेषितव्यमित्याह –
कुतश्चेति ।
कुतःशब्दोपात्तमितःशब्दार्थं स्फुटयति –
कंशब्दस्येति ।
खं ब्रह्मेति खंशब्दस्य ब्रह्मशब्दसम्बन्धवदित्यपेरर्थः ।
गुणगुणिनोरुभयोरपि ध्येयत्वसिद्ध्यर्थमितरेतरविशेषणविशेष्यत्वं कंशब्दस्य खंशब्दस्य च प्रत्येकं ब्रह्मशब्दसम्बन्धादपि स्वीकर्तव्यमित्युक्तं व्यतिरेकद्वारा साधयति –
यदि हीति ।
उक्तरीत्या द्वयोरपि ध्येयत्वमतःशब्दार्थः । ब्रह्मचारिणो मोहो नामान्योन्यविशेषणविशेष्यत्वाग्रहणादाकाशस्यैव गुणिनो ध्येयत्वं न तु सुखस्य गुणस्येति विभ्रमः ।
प्राणं चेत्यादि वाक्यं नाग्नीनां न ब्रह्मचारिणः । तथा च कथमुपाख्यायिकायामिदं निर्वहतीत्याशङ्क्याऽऽह –
तदेतदिति ।
आकाशस्य प्राणसम्बन्धित्वं कया विधयेत्यपेक्षायामाह –
आश्रयत्वेनेति ।
कार्यब्रह्मोपासनसमुच्चितं कारणब्रह्मोपासनमुपसंहर्तुमितिशब्दः ॥५॥