छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःएकादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥
सम्भूयाग्नयः ब्रह्मचारिणे ब्रह्म उक्तवन्तः । अथ अनन्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुमारेभिरे । तत्र आदौ एनं ब्रह्मचारिणं गार्हपत्यः अग्निः अनुशशास — पृथिव्यग्निरन्नमादित्य इति ममैताश्चतस्रस्तनवः । तत्र य आदित्ये एष पुरुषो दृश्यते, सोऽहमस्मि गार्हपत्योऽग्निः, यश्च गार्हपत्योऽग्निः स एवाहमादित्ये पुरुषोऽस्मि, इति पुनः परावृत्त्या स एवाहमस्मीति वचनम् । पृथिव्यन्नयोरिव भोज्यत्वलक्षणयोः सम्बन्धो न गार्हपत्यादित्ययोः । अत्तृत्वपक्तृत्वप्रकाशनधर्मा अविशिष्टा इत्यतः एकत्वमेवानयोरत्यन्तम् । पृथिव्यन्नयोस्तु भोज्यत्वेन आभ्यां सम्बन्धः ॥

प्रधानविद्यामुपदिश्याङ्गविद्याविधानायोपक्रमते –

संभूयेति ।

अनन्तरं प्रधानविद्योपदेशादिति शेषः । अग्निविद्यां वक्तुमारब्धानामग्नीनां मध्ये प्रथममिति श्रुतावथशब्दार्थः ।

पृथिव्यादिचतुष्टयमनूद्याग्न्यादित्ययोरवान्तरभेदं दर्शयति –

तत्रेति ।

एवमग्न्यादित्ययोस्तादात्म्यमितीतिशब्दार्थः ।

य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्येतावतैव तयोस्तादात्म्यसिद्धेः स एवाहमस्मीति पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह –

पुनरिति ।

भोज्यत्वं लक्षणं स्वभावो ययोस्तयोर्गार्हपत्येन यथा सम्बन्धस्तथा गार्हपत्यादित्ययोर्न सम्बन्धः किन्तु तादात्म्यलक्षण एवेत्यत्र हेतुमाह –

अत्तृत्वेति ।

पृथिव्यादावपि तादात्म्यं किं न स्यादित्याशङ्क्याऽऽह –

पृथिवीति ।

आभ्यामग्न्यादित्याभ्यामिति यावत् । स एवाहमस्मीति परावृत्त्या पुनर्वचनं यथोक्तार्थविशेषसिद्ध्यर्थमिति भावः ॥१॥