छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥
अथ ह एनमाहवनीयोऽनुशशास — प्राण आकाशो द्यौर्विद्युदिति ममाप्येताश्चतस्रस्तनवः । य एष विद्युति पुरुषो दृश्यते, सोऽहमस्मीत्यादि पूर्ववत् सामान्यात् । द्य्वाकाशयोः स्वाश्रयत्वात् विद्युदाहवनीययोः भोग्यत्वेनैव सम्बन्धः । समानमन्यत् ॥

गार्हपत्यस्य दक्षिणाग्नेश्चोपासनानन्तर्यमथशब्दार्थः । तत्रावान्तरभेदं दर्शयति –

य एष इति ।

सोऽहमस्मीत्याद्यन्यत्समानमिति सम्बन्धः ।

यथा पूर्वं ज्योतिष्ट्वाविशेषाद् गार्हपत्यादित्ययोरन्वाहार्यपचनचन्द्रमसोश्च साम्यमुक्तं तथा ज्योतिष्ट्वसामान्याद्विद्युदाहवनीययोस्तादात्म्यमेष्टव्यमित्याह –

पूर्ववदिति ।

कथं तर्हि ताभ्यां दिवाकाशयोः सम्बन्धस्तत्राऽऽह –

दिवा(द्व्या)काशयोस्त्विति ।

आहवनीयस्य फलत्वाद्दिवो विषयत्वं तत्र होमादिद्वारा निष्पन्नापूर्वस्य द्युलोकफलत्वाभ्युपगमद्विद्युतस्त्वाकाशाश्रयत्वं प्रसिद्धमतो विद्युदाहवनीययोर्भोग्यत्वेनैव दिवा(द्व्या)काशयोः सम्बन्ध इत्यर्थः । स य एतमेवमित्याद्यन्यदित्युक्तम् ॥१-२॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥