छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिꣳश्च लोकेऽमुष्मिꣳश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥
अथ ह एनम् अन्वाहार्यपचनः अनुशशास दक्षिणाग्निः — आपो दिशो नक्षत्राणि चन्द्रमा इत्येता मम चतस्रस्तनवः चतुर्धा अहमन्वाहार्यपचने आत्मानं प्रविभज्यावस्थितः । तत्र य एष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि, स एवाहमस्मीति पूर्ववत् । अन्नसम्बन्धाज्ज्योतिष्ट्वसामान्याच्च अन्वाहार्यपचनचन्द्रमसोरेकत्वं दक्षिणदिक्सम्बन्धाच्च । अपां नक्षत्राणां च पूर्ववदन्नत्वेनैव सम्बन्धः, नक्षत्राणां चन्द्रमसो भोग्यत्वप्रसिद्धेः । अपामन्नोत्पादकत्वादन्नत्वं दक्षिणाग्नेः — पृथिवीवद्गार्हपत्यस्य । समानमन्यत् ॥

गार्हपत्योपदेशानन्तर्यमथशब्दार्थः । अबादिचतुष्टयमनूद्य दक्षिणाग्नौ चन्द्रे च विशेषं दर्शयति –

तत्रेति ।

अन्वाहार्यपचनचन्द्रमसोस्तादात्म्येनाबन्नेन नक्षत्राणां च ताभ्यां भोज्यत्वेन सम्बन्ध इति वक्तुं पुनर्वचनमित्याह –

स एवेति ।

कथं पुनरन्वाहार्यपचनचन्द्रमसोस्तादात्म्यं तत्राऽऽह –

अन्नसम्बन्धादिति ।

प्रसिद्धं हि दर्शपूर्णमासयोरन्वाहार्यपचने हविः श्रवणम् । ते चन्द्रं प्राप्यान्नं भवन्तीत्यादौ चन्द्रमसि प्रसिद्धोऽन्नसम्बन्धः । तस्मात्तयोस्तादात्म्यमित्यर्थः ।

तयोरेकत्वे हेत्वन्तरमाह –

ज्योतिष्ट्वेति ।

तत्रैव हेत्वन्तरमाह –

दक्षिणेति ।

अन्वाहार्यपचनो हि दक्षिणाग्निरुच्यते । चन्द्रमाश्च दक्षिणेन पथा प्राप्यमाणो दक्षिणस्यां दिशि भवतीति गम्यते । उत्तरदिगधिष्ठातुरपि तस्य तत्सम्बन्धानिवारणात्तद्युक्तं तयोरैक्यमित्यर्थः ।

अपां नक्षत्राणां च चन्द्रवदन्वाहार्यपचनेन तादात्म्यमाशङ्क्याऽऽह –

अपामिति ।

पूर्ववत्पृथिव्यन्नयोस्तयोर्गार्हपत्यादित्याभ्यामन्नत्वेन सम्बन्धवदिति यावत् । सम्बन्धोऽन्वाहार्यपचनचन्द्रमोभ्यामिति शेषः ।

कथं नक्षत्राणामन्नत्वं तत्राऽऽह –

नक्षत्राणामिति ।

कथं पुनरपामन्नत्वं तदाह –

अपामिति ।

दक्षिणाग्नेर्दक्षिणाग्निं प्रतीति यावत् । पृथिव्या गार्हपत्याग्निं प्रत्यन्नत्ववदित्युदाहरणार्थः । स य एतमेवं विद्वानित्याद्यन्यदित्युक्तम् ॥१ -२॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वादशः खण्डः ॥