छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ १ ॥
ते पुनः सम्भूयोचुः ह — उपकोसल एषा सोम्य ते तव अस्मद्विद्या अग्निविद्येत्यर्थः ; आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च ; आचार्यस्तु ते गतिं वक्ता विद्याफलप्राप्तये इत्युक्त्वा उपरेमुरग्नयः । आजगाम ह अस्य आचार्यः कालेन । तं च शिष्यम् आचार्यो अभ्युवाद उपकोसल३ इति ॥

अग्नीनां मिथो विसंवादं व्यावर्तयति –

ते पुनरिति ।

तथाऽप्यात्मविद्या श्रोतव्येत्याशङ्क्याऽऽह –

आत्मविद्येति ।

कथमाचार्योपदेशमन्तरेण भगवदुपदेशवशादेव मे विद्या फलवत्याचार्याद्धैव विद्या विदिता साधिष्ठमित्यादि हि प्रागुक्तमत आह –

आचार्यस्त्विति ॥१॥