छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ ३ ॥
भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को नु त्वा अनुशशास इत्युक्तः प्रत्याह — को नु मा अनुशिष्यात् अनुशासनं कुर्यात् भो भगवन् त्वयि प्रोषिते, इति इह अप इव निह्नुते अपनिह्नुत इवेति व्यवहितेन सम्बन्धः, न च अपनिह्नुते, न च यथावदग्निभिरुक्तं ब्रवीतीत्यभिप्रायः । कथम् ? इमे अग्नयः मया परिचरिताः उक्तवन्तः नूनम् , यतस्त्वां दृष्ट्वा वेपमाना इव ईदृशा दृश्यन्ते पूर्वमन्यादृशाः सन्तः, इति इह अग्नीन् अभ्यूदे अभ्युक्तवान् काक्वा अग्नीन्दर्शयन् । किं नु सोम्य किल ते तुभ्यम् अवोचन् अग्नयः ? इति, पृष्टः इत्येवम् इदमुक्तवन्तः इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान् प्रतीकमात्रं किञ्चित् , न सर्वं यथोक्तमग्निभिरुक्तमवोचत् । यत आह आचार्यः — लोकान्वाव पृथिव्यादीन् हे सोम्य किल ते अवोचन् , न ब्रह्म साकल्येन । अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यम् — यथा पुष्करपलाशे पद्मपत्रे आपो न श्लिष्यन्ते, एवं यथा वक्ष्यामि ब्रह्म, एवंविदि पापं कर्म न श्लिष्यते न सम्बध्यते इति । एवमुक्तवति आचार्ये आह उपकोसलः — ब्रवीतु मे भगवानिति । तस्मै ह उवाच आचार्यः ॥

अपनिहनुत इवेत्यत्रेवशब्दतात्पर्यं दर्शयति –

न चेति ।

उक्तमभिप्रायमाकाङ्क्षापूर्वकं विवृणोति –

कथमित्यादिना ।

काक्वा स्वरभङ्गेन भीतः सन्नुक्तवानस्फुटमिति यावत् ।

भीतिं शिष्यस्यापनयन्नाचार्यो ब्रूते –

किं नु सोम्येति ।

आचार्यवाक्यस्थमितिशब्दमनूद्य व्याचष्टे –

इत्येवमिति ।

पृष्टः सन्निति पूर्वेण सम्बन्धः ।

यस्मादग्निभिरुक्तमाचार्याय प्रतीकद्वारा शिष्यो निवेदितवांस्तस्मादाचार्यः प्राप्तः सावकाशमित्याह –

यत इति ।

कं ब्रह्म खं ब्रह्मेत्यादिना ब्रह्मापि तैरुक्तमित्याशङ्क्याऽऽह –

न ब्रह्मेति ।

कथं तर्हि साकल्येन ब्रह्म ज्ञातव्यमित्यत आह –

अहं त्विति ।

ब्रह्मज्ञाने किं स्यादित्याशङ्क्याऽऽह –

शृण्विति ॥२ – ३॥

इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥