कथमुपसन्नायाऽचार्यो ब्रह्मचारिणे ब्रह्मविद्यामुक्तवानित्यत आह –
य एष इति ।
अक्षिस्थाने तदुपलक्षितो द्रष्टा य एष पुरुषो दृश्यत इति सम्बन्धः ।
नासौ सर्वेषां छायात्मातिरिक्तो दृष्टिगोचरतामाचरतीत्याशङ्क्याधिकारिणो विशिनष्टि –
निवृत्तेति ।
निवृत्तानि विषयेभ्यो विमुखानि चक्षूंषि बाह्यानि करणानि येषां तैरिति यावत् ।
बाह्यकरणानां स्ववशत्वाधीनं विशेषणान्तरमाधत्ते –
ब्रह्मचर्यादीति ।
मनसो विषयपारवश्यराहित्ये विशेषणान्तरमाह –
शान्तैरिति ।
तेषां निवृत्तचक्षुष्ट्वं हेतुमाह –
विवेकिभिरिति ।
पुरुषोऽक्षिणि द्रष्टेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –
चक्षुष इति ।
आचार्येणापूर्वविद्योपदेशादग्नीनामुक्तिर्मिथ्या प्राप्तेति शङ्कते –
नन्विति ।
अग्निवचनस्य गत्यन्तरमाह –
भविष्यदिति ।
नाग्नीनामुक्तिर्मृषा नापि तेषां भविष्यद्विषयाज्ञानमिति दूषयति –
नैष दोष इति ।
यत्सुखगुणकमाकाशमुपास्यमग्निभिरुपदिष्टं तस्यैव कारणब्रह्मणो द्रष्टृरूपस्याक्षिणि दृश्यत इत्यनुवादो गतिव्याख्यानायाऽऽचार्येण क्रियते तन्नास्ति दोषद्वयमित्यर्थः ।
अक्षिणि दृश्यत इति प्रयोगादाचार्येण च्छायात्मा विवक्षित इत्याशङ्क्याऽऽह –
एष इति ।
इतश्च नायं पुरुषश्छायात्मेत्यनन्तरवाक्यमवतार्य व्याकरोति –
एतदित्यादिना ।
इतिशब्दो यथोक्तगुणैरुपास्यः पुरुषो न च्छायात्मा भवितुमर्हतीत्यर्थः ।
असङ्गत्वाच्च नायं छायात्मेत्याह –
किञ्चेति ।
माहात्म्यं स्थानद्वारेणोच्यत इति शेषः ।
किमेतावता पुरुषस्याऽऽयातमित्याशङ्क्याऽऽह –
स्थानस्यापीति ॥१॥