छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥
य एषोऽक्षिणि पुरुषः दृश्यते निवृत्तचक्षुर्भिर्ब्रह्मचर्यादिसाधनसम्पन्नैः शान्तैर्विवेकिभिः दृष्टेर्द्रष्टा, ‘चक्षुषश्चक्षुः’ (के. उ. १ । २) इत्यादिश्रुत्यन्तरात् ; ननु अग्निभिरुक्तं वितथम् , यतः आचार्यस्तु ते गतिं वक्ता इति गतिमात्रस्य वक्तेत्यवोचन् , भविष्यद्विषयापरिज्ञानं च अग्नीनाम् ; नैष दोषः, सुखाकाशस्यैव अक्षिणि दृश्यत इति द्रष्टुरनुवादात् । एष आत्मा प्राणिनामिति ह उवाच एवमुक्तवान् ; एतत् यदेव आत्मतत्त्वमवोचाम, एतदमृतम् अमरणधर्मि अविनाशि अत एवाभयम् , यस्य हि विनाशाशङ्का तस्य भयोपपत्तिः तदभावादभयम् , अत एव एतद्ब्रह्म बृहदनन्तमिति । किञ्च, अस्य ब्रह्मणोऽक्षिपुरुषस्य माहात्म्यम् — तत् तत्र पुरुषस्य स्थाने अक्षिणि यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति, वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति ; न चक्षुषा सम्बध्यते — पद्मपत्रेणेवोदकम् । स्थानस्याप्येतन्माहात्म्यम् , किं पुनः स्थानिनोऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः ॥

कथमुपसन्नायाऽचार्यो ब्रह्मचारिणे ब्रह्मविद्यामुक्तवानित्यत आह –

य एष इति ।

अक्षिस्थाने तदुपलक्षितो द्रष्टा य एष पुरुषो दृश्यत इति सम्बन्धः ।

नासौ सर्वेषां छायात्मातिरिक्तो दृष्टिगोचरतामाचरतीत्याशङ्क्याधिकारिणो विशिनष्टि –

निवृत्तेति ।

निवृत्तानि विषयेभ्यो विमुखानि चक्षूंषि बाह्यानि करणानि येषां तैरिति यावत् ।

बाह्यकरणानां स्ववशत्वाधीनं विशेषणान्तरमाधत्ते –

ब्रह्मचर्यादीति ।

मनसो विषयपारवश्यराहित्ये विशेषणान्तरमाह –

शान्तैरिति ।

तेषां निवृत्तचक्षुष्ट्वं हेतुमाह –

विवेकिभिरिति ।

पुरुषोऽक्षिणि द्रष्टेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –

चक्षुष इति ।

आचार्येणापूर्वविद्योपदेशादग्नीनामुक्तिर्मिथ्या प्राप्तेति शङ्कते –

नन्विति ।

अग्निवचनस्य गत्यन्तरमाह –

भविष्यदिति ।

नाग्नीनामुक्तिर्मृषा नापि तेषां भविष्यद्विषयाज्ञानमिति दूषयति –

नैष दोष इति ।

यत्सुखगुणकमाकाशमुपास्यमग्निभिरुपदिष्टं तस्यैव कारणब्रह्मणो द्रष्टृरूपस्याक्षिणि दृश्यत इत्यनुवादो गतिव्याख्यानायाऽऽचार्येण क्रियते तन्नास्ति दोषद्वयमित्यर्थः ।

अक्षिणि दृश्यत इति प्रयोगादाचार्येण च्छायात्मा विवक्षित इत्याशङ्क्याऽऽह –

एष इति ।

इतश्च नायं पुरुषश्छायात्मेत्यनन्तरवाक्यमवतार्य व्याकरोति –

एतदित्यादिना ।

इतिशब्दो यथोक्तगुणैरुपास्यः पुरुषो न च्छायात्मा भवितुमर्हतीत्यर्थः ।

असङ्गत्वाच्च नायं छायात्मेत्याह –

किञ्चेति ।

माहात्म्यं स्थानद्वारेणोच्यत इति शेषः ।

किमेतावता पुरुषस्याऽऽयातमित्याशङ्क्याऽऽह –

स्थानस्यापीति ॥१॥