छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
रहस्यप्रकरणे प्रसङ्गात् आरण्यकत्वसामान्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्था विधातव्याः, तदभिज्ञस्य च ऋत्विजो ब्रह्मणो मौनमित्यत इदमारभ्यते —

पूर्वोत्तरग्रन्थयोरसङ्गतिमाशङ्क्य प्रासङ्गिकीं सङ्गतिमाह –

रहस्यप्रकरण इति ।

रहस्यमुपासनं तत्प्रकरणे विदुषां फलप्राप्तये मार्गोपदेशप्रसङ्गेन यज्ञस्य समाप्तिगमनायानन्तरग्रन्थेन मार्गोपदेशादस्ति सङ्गतिरित्यर्थः ।

किञ्च पूर्वोत्तरग्रन्थयोरारण्यकत्वेन समानत्वादपि सङ्गतिरस्तीत्याह –

आरण्यकत्वेति ।

किञ्चाग्निविषया विद्या प्रकृता यज्ञे च सिद्धेऽग्निसम्बन्धे यदि किमपि क्षतमुत्पद्यते तदा प्रायश्चित्तार्था व्याहृतयो विधातव्या इत्यनन्तरग्रन्थप्रवृत्तिरिति सङ्गत्यन्तरमाह –

यज्ञ इति ।

प्रकृतायामुपासनायां मौनमङ्गीक्रियते वाग्व्यापारे विक्षिप्तचित्ततया ध्यानानुष्ठानासिद्धेः ।

ऋत्विग्विशेषस्य च प्रायश्चित्ताभिज्ञस्य मौनमत्र विधीयते तेनास्ति मिथः सङ्गतिरित्याह –

तदभिज्ञस्येति ।