छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
एष ह वै यज्ञो योऽयं पवत एष ह यन्निदं सर्वं पुनाति यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥
एष वै एष वायुः योऽयं पवते अयं यज्ञः । ह वै इति प्रसिद्धार्थावद्योतकौ निपातौ । वायुप्रतिष्ठो हि यज्ञः प्रसिद्धः श्रुतिषु, ‘स्वाहरा वातेधाः’ ‘अयं वै यज्ञो योऽयं पवते’ (ऐ. ब्रा. २५ । ८) इत्यादिश्रुतिभ्यः । वात एव हि चलनात्मकत्वात्क्रियासमवायी, ‘वात एव यज्ञस्यारम्भको वातः प्रतिष्ठा’ इति च श्रवणात् । एष ह यन् गच्छन् चलन् इदं सर्वं जगत् पुनाति पावयति शोधयति । न हि अचलतः शुद्धिरस्ति । दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य । यत् यस्माच्च यन् एष इदं सर्वं पुनाति, तस्मादेष एव यज्ञः यत्पुनातीति । तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता, मनश्च यथाभूतार्थज्ञाने व्यापृतम् , ते एते वाङ्मनसे वर्तनी मार्गौ, याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी ; ‘प्राणापानपरिचलनवत्या हि वाचश्चित्तस्य चोत्तरोत्तरक्रमो यद्यज्ञः’ (ऐ. आ. २ । ३) इति हि श्रुत्यन्तरम् । अतो वाङ्मनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य ॥

यज्ञस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वात्क्रियायाश्च क्षणभङ्गिन्या गतिमत्त्वायोगान्मार्गोपदेशासम्भवात्कथमाद्या सङ्गतिरित्याशङ्क्य गतिमत्त्वं सम्पादयितुं यज्ञस्य वायुरूपत्वमाह –

एष इत्यादिना ।

यज्ञो वाय्वात्मक इति श्रौती प्रसिद्धिस्तामेव प्रकटयति –

वायुप्रतिष्ठ इति ।

श्रुतीरुदाहरति –

स्वाहेति ।

स्वाहाकारमुच्चार्य वाते वायौ धीयते क्षिप्यत इति वातेधा यज्ञः ।

श्रुत्यन्तरमाह –

अयमिति ।

आदिशब्देन “वाताद्यज्ञः प्रयुज्यताम्” (तै.ब्रा. ३ । ७ । ४ । २४) इति श्रुतिर्गृह्यते ।

आदर्शितश्रुतीनामर्थं संगृह्णाति –

वात इति ।

यो यज्ञः क्रियासमवायी तत्समुदायात्मकः स वायुरेव । द्वयोश्चलनात्मकत्वाविशेषात् । तस्माद्वायुप्रतिष्ठस्तदात्मको यज्ञ इत्यर्थः ।

वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुत्यन्तरमाह –

वात एवेति ।

पवनत्वश्रुत्याऽपि वायुयज्ञयोरेकत्वमाह –

एष ह यन्निति ।

विनाऽपि वायुं शुद्धिः सिद्ध्यतीत्याशङ्क्याऽऽह –

न हीति ।

अचलतो विहितक्रियामननुतिष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं परित्यक्तुं यतमानस्य सिद्ध्यति । न तु निषिद्धक्रियात्यागोदासीनस्य दोषनिरासात्मिका शुद्धिः सम्भवति ।

चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्वं जगत्पुनातीत्याह –

दोषेति ।

वायोरस्तु पावनत्वं प्रकृते किमायातमित्याशङ्क्याऽऽह –

यद्यस्मादिति ।

वाय्वात्मना गतिविशिष्टस्य यज्ञस्य मार्गद्वयमुपदिशति –

तस्येति ।

एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् ।

यज्ञस्योक्तमार्गद्वयवैशिष्ट्ये सोपस्कारमैतरेयवाक्यमुदाहरति –

प्राणेति ।

प्राणापानाभ्यामुच्छ्वासनिश्वासाभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पूर्वापरभावक्रमेण यज्ञः सम्पाद्यते । मनसा हि ध्यायन्वाचमभिव्याहरन्पूर्वापरीभावेन यज्ञं सम्पदयतीत्यर्थः ।

यज्ञस्य मार्गद्वयविशिष्टत्वमुपसंहरति –

अत इति ॥१॥