छान्दोग्योपनिषद्भाष्यम्
चतुर्थोऽध्यायःषोडशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अन्यतरामेव वर्तनीꣳ सꣳस्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्‌रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ३ ॥
तयोः वर्तन्योः अन्यतरां वर्तनीं मनसा विवेकज्ञानवता संस्करोति ब्रह्मा ऋत्विक् , वाचा वर्तन्या होताध्वर्युरुद्गाता इत्येते त्रयोऽपि ऋत्विजः अन्यतरां वाग्लक्षणां वर्तनीं वाचैव संस्कुर्वन्ति । तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे । अथ स ब्रह्मा यत्र यस्मिन्काले उपाकृते प्रारब्धे प्रातरनुवाके शस्त्रे, पुरा पूर्वं परिधानीयाया ऋचः ब्रह्मा एतस्मिन्नन्तरे काले व्यवदति मौनं परित्यजति यदि, तदा अन्यतरामेव वाग्वर्तनीं संस्करोति । ब्रह्मणा संस्क्रियमाणा मनोवर्तनी हीयते विनश्यति छिद्रीभवति अन्यतरा ; स यज्ञः वाग्वर्तन्यैव अन्यतरया वर्तितुमशक्नुवन् रिष्यति । कथमिवेति, आह — स यथैकपात् पुरुषः व्रजन् गच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छन् रिष्यति, एवमस्य यजमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति । यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति । यज्ञप्राणो हि यजमानः । अतो युक्तो यज्ञरेषे रेषस्तस्य । सः तं यज्ञमिष्ट्वा तादृशं पापीयान् पापतरो भवति ॥

तयोरन्योन्यमुपकार्योपकारकभावं दर्शयति –

तयोरिति ।

वाचा सम्यक्प्रयुक्तयेति शेषः ।

संस्कृतायां च वाग्वर्तन्यां तयैव यज्ञो निष्पन्नो भवतीत्याह –

वाचैवेति ।

किं तर्हि मनोवर्तन्या संस्क्रियत इत्याशङ्क्याऽऽह –

तत्रेति ।

यज्ञस्य द्वाभ्यां मार्गाभ्यां नीयमानत्वे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।

मनोवर्तन्याः संस्काराभावे प्रत्यवायं दर्शयति –

अथेत्यादिना ।

मनोवर्तनी ब्रह्मणा वाग्वर्तनी च होतृप्रभृतिभिः संस्कार्येति व्यवस्थान्तरमित्यर्थः ।

स ब्रह्मेत्यन्वयं सूचयति –

ब्रह्मेति ।

पुनरुक्तिस्तस्य क्रियापदेन सम्बन्धद्योतनार्था । एतस्मिन्नन्तरे काले प्रातरनुवाकशस्त्रमारभ्य तत्परिसमाप्तेरन्तरावस्थायामित्यर्थः ।

वाचो होत्रादिभिः संस्कार्यत्वमस्तु, मनसश्च ब्रह्मसंस्कार्यत्वं मा भूदेतावता यज्ञस्य किमायातमित्याशङ्क्याऽऽह –

स यज्ञ इति ।

यज्ञभ्रंशमेवाऽऽकाङ्क्षाद्वारा व्युत्पादयति –

कथमित्यादिना ।

नाशेऽपि यज्ञस्य यजमानस्य किमायातमित्याशङ्क्याऽऽह –

यज्ञप्राणो हीति ।

वाग्वर्तनीसंस्काराभावेऽपि तुल्यो दोषः ॥२ -३॥