मयि श्रेष्ठत्वधीर्युष्माकमस्तीति कथं ज्ञातुं शक्यमित्याशङ्क्याऽऽह –
अथेति ।
वचनं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
क्रियाविशेषणत्वमेव विशदयति –
यद्वसिष्ठत्वेति ।
वसिष्ठत्वेन गुणेनाहं गुणवानस्मीति यत्तत्त्वमेवेति योजना ।
अनन्तरं वाक्यमादाय व्याचष्टे –
त्वमित्यादिना ।
तद्वसिष्ठ इति समस्तपदमिति गृहीत्वा व्याख्याय पक्षान्तरमाह –
अथ वेति ।
यच्छब्दवदित्यपेरर्थः ।
अहं वसिष्ठत्त्वगुणोऽस्मीति यत्तत्त्वमेव वसिष्ठत्वगुणोऽसीति कथमिदानीमुच्यते । अन्यथा हि पूर्वमभिधानं तवाऽऽसीदित्याशङ्क्याऽऽह –
त्वत्कृत इति ।
वाचि दर्शितं न्यायं चक्षुरादावतिदिशति –
तथेति ॥१३-१४॥