वागादिवचनादुत्थाय प्राणाधीनतां वागादेः श्रुतिरेव कथयतीत्युत्तरस्य “न वै वाच” (छा.उ. ५ । १ । १५) इत्यादेस्तात्पर्यमाह –
श्रुतेरिति ।
तदेव च सोपस्कारं व्याकरोति –
युक्तमित्यादिना ।
यदि सर्वाण्येव करणानि वाक्तन्त्राणि स्युस्तर्हि वाच इत्येव तानि ब्रूयुः । यदि चक्षुस्तन्त्राणि स्युस्तदा सर्वाण्येव चक्षूंषीति वदेयुः । न चैवं वदन्ति, प्राणा इति तु तानि कथयन्ति । तस्मात्प्राणपारतन्त्र्यं करणानां सिद्धमित्यर्थः । वागादिभिरुक्तं त्वं तद्वसिष्ठोऽसीत्यादि प्राणस्यैव यथोक्तगुणवतो ध्येयत्वं प्रकरणार्थः । साक्षादुपसंहारादर्शनादुपसञ्जिहीर्षतीत्युक्तम् ।