छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥
ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तः अन्योन्यं स्पर्धेरन्निति ; न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति ; तथा अपगमो देहात् पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते । तत्र अग्न्यादिचेतनावद्देवताधिष्ठितत्वात् वागादीनां चेतनावत्त्वं तावत् सिद्धमागमतः । तार्किकसमयविरोध इति चेत् देहे एकस्मिन्ननेकचेतनावत्त्वे, न, ईश्वरस्य निमित्तकारणत्वाभ्युपगमात् । ये तावदीश्वरमभ्युपगच्छन्ति तार्किकाः, ते मनआदिकार्यकरणानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति — रथादिवत् । न च अस्माभिः अग्न्याद्याश्चेतनावत्योऽपि देवता अध्यात्मं भोक्त्र्यः अभ्युपगम्यन्ते ; किं तर्हि, कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्ता ईश्वरोऽभ्युपगम्यते । स ह्यकरणः, ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिमन्त्रवर्णात् ; ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. उ. ४ । १२) ‘हिरण्यगर्भं जनयामास पूर्वम्’ (श्वे. उ. ३ । ४) इत्यादि च श्वेताश्वतरीयाः पठन्ति । भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः । वागादीनां च इह संवादः कल्पितः विदुषोऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम्— यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कञ्चिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति ; तेनोक्ता ऐकैकश्येन अदः कार्यं साधयितुमुद्यच्छत, येनादः कार्यं साध्यते, स वः श्रेष्ठः — इत्युक्ताः तथैवोद्यच्छन्तः आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति — तथेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः — कथं नाम विद्वान् वागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति । तथा च श्रुतिः कौषीतकिनाम् — ‘जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः’ (शां. आ. ५ । ३) इत्याद्या ॥

आख्यायिकाया यथाश्रुतमर्थमाक्षिपति –

नन्विति ।

यथा पुरुषाश्चेतनावन्तो विवदमानाः स्पर्धन्ते तथा वागादयोऽचेतनाः स्वकीयश्रेष्ठत्वसिद्ध्यर्थं विप्रतिपन्ना मिथः स्पर्धेरन्निति नैव युक्तमचेतनेषु स्पर्धादेरदर्शनादित्यर्थः ।

किं च वाग्व्यतिरिक्तानामन्योन्यं वचनमेवनुचितं वचनस्य वाग्व्यापारत्वादित्याह –

न हीति ।

किञ्च वागादीनां देहादपसर्पणाद्ययुक्तमचेतनत्वादित्याह –

तथेति ।

वाशब्दो न हीत्यस्यानुकर्षणार्थः ।

अग्न्यादयश्चेतनावत्यो देवतास्ताभिरधिष्ठितत्वात्तादात्म्याभिप्रायेण वागादीनां चेतनावत्त्वसम्भवाद्वदनादि व्यवहारः सम्भवतीत्यग्निर्वाग्भूत्वा मुखं प्राविशदित्यादिश्रुतिमनुसृत्योत्तरमाह –

तत्रेति ।

एकस्मिन्देहेऽनेकचेतनावतां प्रसह्य विरुद्धानेकाभिप्रायानुविधायित्वेन देहस्योन्मथनप्रसङ्गादक्रियत्वप्रसङ्गाद्वा नानेकचेतनाधिष्ठितत्वमेकस्य देहस्य सम्भवतीति शङ्कते –

तार्किकेति ।

किमेकशरीरमनेकचेतनाधिष्ठितं न भवति किं वा तैर्निर्णीतकर्तृ भोक्त्रधिष्ठितमिति विकल्प्याऽद्यं दूषयति –

नेति ।

अस्ति हि परमते शरीरस्य जीवाधिष्ठितस्यैवेश्वराधिष्ठितत्वं तथाचकशरीरमनेकचेतनाधिष्ठितं न भवतीति नास्ति सेश्वरवादिनां शङ्केत्यर्थः ।

संग्रहवाक्यं विवृणोति –

ये तावदिति ।

अचेतनानां चेतनाधिष्ठितानामेव प्रवृत्तिरित्यत्र दृष्टान्तमाह –

रथादिवदिति ।

द्वितीयं प्रत्याह –

न चेति ।

[यदि] कार्यकरणानामधिष्ठातृदेवता तर्हि तत्कार्यकरणानां किमधिष्ठातृदेवतान्तरमिति पृच्छति –

किं तर्हीति ।

देवताकार्यकरणानामधिष्ठातृदेवतान्तरमिष्टं चेदनवस्था स्यादिति मन्वानं प्रत्याह –

कार्यकरणवतीनामिति ।

शाकल्यब्राह्मणमनुसृत्याऽऽह –

प्राणेति ।

ननु भूयस्यो देवताः कथं तासां प्राणलक्षणैकदेवताप्रभेदत्वमत आह –

अध्यात्मेति ।

अध्यात्माधिभूताधिदैवानां भेदकोटिर्विकल्पो यासामिति विग्रहः ।

नियन्तृत्वप्रयुक्तव्यापारवत्त्वं वारयितुं विशिनष्टि –

अध्यक्षतामात्रेणेति ।

अथेश्वरस्यापि नियन्तृत्वात्कार्यकरणवत्त्वं देवतानामिव स्यादिति चेन्नेत्याह –

स हीति ।

अकरणत्वमकार्यत्वस्योपलक्षणम् ।

तत्र श्रुतिं प्रमाणयति –

अपाणीति ।

आदिपदेन च “न तस्य कार्यं करणं च विद्यत” (श्वे.उ. ६ । ८) इत्यादिम्नत्रवर्णो गृहीतः ।

सूत्रात्मा हिरण्यगर्भः सा चैका समष्टिरूपा देवता तदवस्थाभेदानां देवतानामीश्वरो नियन्तेत्युक्तं तत्र प्रमाणमाह –

हिरण्यगर्भमिति ।

आदिपदेन “हिरण्यगर्भः समवर्तत” इत्यादि गृह्यते ।

देवानामीश्वरस्य चास्मिन्देहे भोक्तृत्वाभावे कस्य भोक्तृत्वमित्यत आह –

भोक्तेति ।

तद्विलक्षणो देवतेश्वराभ्यां व्यावृत्त इति यावत् ।

वागादिशब्दवाच्याश्चेतनावत्यो देवता इति स्वीकृत्याऽऽख्यायिकायाः स्वार्थनिर्वृत्त्यर्थमुक्तमिदानीं तस्यास्तात्पर्यमाह –

वागादीनां चेति ।

कल्पनाप्रयोजनमाह –

विदुष इति ।

यथोक्तां कल्पनां दृष्टान्तेन स्पष्टयति –

यथेत्यादि ।

तेनोक्ता इत्युक्तमेव व्यनक्ति –

एकैकश्येनेति ।

विदुष इत्यादिनोक्तं प्रयोजनं प्रकटयति –

कथं नामेति ।

विद्वान्प्राणश्रेष्ठतां कथं नाम प्रतिपद्येतेति सम्बन्धः ।

प्रतिपत्तिप्रकारं संक्षिपति –

वागादीनामिति ।

फलवती कल्पनेति शेषः ।

दृष्टेऽप्यर्थे श्रुतिमनुग्राहकत्वेन दर्शयति –

तथा चेति ॥१५॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य प्रथमः खण्डः ॥