छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ १४ ॥
अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहुः — बलिमिव हरन्तो राज्ञे विशः । कथम् ? वाक् तावदुवाच — यदहं वसिष्ठोऽस्मि, यदिति क्रियाविशेषणम् , यद्वसिष्ठत्वगुणास्मीत्यर्थः ; त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं तद्वसिष्ठोऽसि तद्गुणस्त्वमित्यर्थः । अथवा तच्छब्दोऽपि क्रियाविशेषणमेव । त्वत्कृतस्त्वदीयोऽसौ वसिष्ठत्वगुणोऽज्ञानान्ममेति मया अभिमत इत्येतत् । तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु ॥

मयि श्रेष्ठत्वधीर्युष्माकमस्तीति कथं ज्ञातुं शक्यमित्याशङ्क्याऽऽह –

अथेति ।

वचनं प्रश्नपूर्वकं प्रकटयति –

कथमित्यादिना ।

क्रियाविशेषणत्वमेव विशदयति –

यद्वसिष्ठत्वेति ।

वसिष्ठत्वेन गुणेनाहं गुणवानस्मीति यत्तत्त्वमेवेति योजना ।

अनन्तरं वाक्यमादाय व्याचष्टे –

त्वमित्यादिना ।

तद्वसिष्ठ इति समस्तपदमिति गृहीत्वा व्याख्याय पक्षान्तरमाह –

अथ वेति ।

यच्छब्दवदित्यपेरर्थः ।

अहं वसिष्ठत्त्वगुणोऽस्मीति यत्तत्त्वमेव वसिष्ठत्वगुणोऽसीति कथमिदानीमुच्यते । अन्यथा हि पूर्वमभिधानं तवाऽऽसीदित्याशङ्क्याऽऽह –

त्वत्कृत इति ।

वाचि दर्शितं न्यायं चक्षुरादावतिदिशति –

तथेति ॥१३-१४॥