छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ १५ ॥
श्रुतेरिदं वचः — युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहितम् ; यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा ; किं तर्हि, प्राणा इत्येव आचक्षते कथयन्ति ; यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवति ; अतो मुख्यं प्राणं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसञ्जिहीर्षति ॥

वागादिवचनादुत्थाय प्राणाधीनतां वागादेः श्रुतिरेव कथयतीत्युत्तरस्य “न वै वाच” (छा.उ. ५ । १ । १५) इत्यादेस्तात्पर्यमाह –

श्रुतेरिति ।

तदेव च सोपस्कारं व्याकरोति –

युक्तमित्यादिना ।

यदि सर्वाण्येव करणानि वाक्तन्त्राणि स्युस्तर्हि वाच इत्येव तानि ब्रूयुः । यदि चक्षुस्तन्त्राणि स्युस्तदा सर्वाण्येव चक्षूंषीति वदेयुः । न चैवं वदन्ति, प्राणा इति तु तानि कथयन्ति । तस्मात्प्राणपारतन्त्र्यं करणानां सिद्धमित्यर्थः । वागादिभिरुक्तं त्वं तद्वसिष्ठोऽसीत्यादि प्राणस्यैव यथोक्तगुणवतो ध्येयत्वं प्रकरणार्थः । साक्षादुपसंहारादर्शनादुपसञ्जिहीर्षतीत्युक्तम् ।