आख्यायिकाया यथाश्रुतमर्थमाक्षिपति –
नन्विति ।
यथा पुरुषाश्चेतनावन्तो विवदमानाः स्पर्धन्ते तथा वागादयोऽचेतनाः स्वकीयश्रेष्ठत्वसिद्ध्यर्थं विप्रतिपन्ना मिथः स्पर्धेरन्निति नैव युक्तमचेतनेषु स्पर्धादेरदर्शनादित्यर्थः ।
किं च वाग्व्यतिरिक्तानामन्योन्यं वचनमेवनुचितं वचनस्य वाग्व्यापारत्वादित्याह –
न हीति ।
किञ्च वागादीनां देहादपसर्पणाद्ययुक्तमचेतनत्वादित्याह –
तथेति ।
वाशब्दो न हीत्यस्यानुकर्षणार्थः ।
अग्न्यादयश्चेतनावत्यो देवतास्ताभिरधिष्ठितत्वात्तादात्म्याभिप्रायेण वागादीनां चेतनावत्त्वसम्भवाद्वदनादि व्यवहारः सम्भवतीत्यग्निर्वाग्भूत्वा मुखं प्राविशदित्यादिश्रुतिमनुसृत्योत्तरमाह –
तत्रेति ।
एकस्मिन्देहेऽनेकचेतनावतां प्रसह्य विरुद्धानेकाभिप्रायानुविधायित्वेन देहस्योन्मथनप्रसङ्गादक्रियत्वप्रसङ्गाद्वा नानेकचेतनाधिष्ठितत्वमेकस्य देहस्य सम्भवतीति शङ्कते –
तार्किकेति ।
किमेकशरीरमनेकचेतनाधिष्ठितं न भवति किं वा तैर्निर्णीतकर्तृ भोक्त्रधिष्ठितमिति विकल्प्याऽद्यं दूषयति –
नेति ।
अस्ति हि परमते शरीरस्य जीवाधिष्ठितस्यैवेश्वराधिष्ठितत्वं तथाचकशरीरमनेकचेतनाधिष्ठितं न भवतीति नास्ति सेश्वरवादिनां शङ्केत्यर्थः ।
संग्रहवाक्यं विवृणोति –
ये तावदिति ।
अचेतनानां चेतनाधिष्ठितानामेव प्रवृत्तिरित्यत्र दृष्टान्तमाह –
रथादिवदिति ।
द्वितीयं प्रत्याह –
न चेति ।
[यदि] कार्यकरणानामधिष्ठातृदेवता तर्हि तत्कार्यकरणानां किमधिष्ठातृदेवतान्तरमिति पृच्छति –
किं तर्हीति ।
देवताकार्यकरणानामधिष्ठातृदेवतान्तरमिष्टं चेदनवस्था स्यादिति मन्वानं प्रत्याह –
कार्यकरणवतीनामिति ।
शाकल्यब्राह्मणमनुसृत्याऽऽह –
प्राणेति ।
ननु भूयस्यो देवताः कथं तासां प्राणलक्षणैकदेवताप्रभेदत्वमत आह –
अध्यात्मेति ।
अध्यात्माधिभूताधिदैवानां भेदकोटिर्विकल्पो यासामिति विग्रहः ।
नियन्तृत्वप्रयुक्तव्यापारवत्त्वं वारयितुं विशिनष्टि –
अध्यक्षतामात्रेणेति ।
अथेश्वरस्यापि नियन्तृत्वात्कार्यकरणवत्त्वं देवतानामिव स्यादिति चेन्नेत्याह –
स हीति ।
अकरणत्वमकार्यत्वस्योपलक्षणम् ।
तत्र श्रुतिं प्रमाणयति –
अपाणीति ।
आदिपदेन च “न तस्य कार्यं करणं च विद्यत” (श्वे.उ. ६ । ८) इत्यादिम्नत्रवर्णो गृहीतः ।
सूत्रात्मा हिरण्यगर्भः सा चैका समष्टिरूपा देवता तदवस्थाभेदानां देवतानामीश्वरो नियन्तेत्युक्तं तत्र प्रमाणमाह –
हिरण्यगर्भमिति ।
आदिपदेन “हिरण्यगर्भः समवर्तत” इत्यादि गृह्यते ।
देवानामीश्वरस्य चास्मिन्देहे भोक्तृत्वाभावे कस्य भोक्तृत्वमित्यत आह –
भोक्तेति ।
तद्विलक्षणो देवतेश्वराभ्यां व्यावृत्त इति यावत् ।
वागादिशब्दवाच्याश्चेतनावत्यो देवता इति स्वीकृत्याऽऽख्यायिकायाः स्वार्थनिर्वृत्त्यर्थमुक्तमिदानीं तस्यास्तात्पर्यमाह –
वागादीनां चेति ।
कल्पनाप्रयोजनमाह –
विदुष इति ।
यथोक्तां कल्पनां दृष्टान्तेन स्पष्टयति –
यथेत्यादि ।
तेनोक्ता इत्युक्तमेव व्यनक्ति –
एकैकश्येनेति ।
विदुष इत्यादिनोक्तं प्रयोजनं प्रकटयति –
कथं नामेति ।
विद्वान्प्राणश्रेष्ठतां कथं नाम प्रतिपद्येतेति सम्बन्धः ।
प्रतिपत्तिप्रकारं संक्षिपति –
वागादीनामिति ।
फलवती कल्पनेति शेषः ।
दृष्टेऽप्यर्थे श्रुतिमनुग्राहकत्वेन दर्शयति –
तथा चेति ॥१५॥