अननुशिष्य त्वामन्वशिषमिति कथमुक्तवानस्मीत्याशङ्क्याऽऽह –
यत इति ।
नैकञ्चनेत्युक्तमेव नञ्पदं नाशकमिति सम्बन्धं दर्शयितुं पुनरुपात्तम् । अतो मां प्रति तव मिथ्यावादिता सिद्धेति शेषः ।
पिता स्वकीयमिथ्यावादित्वशङ्कां परिहरति –
स होवाचेति ।
यथा मा त्वमित्यादिवाक्यं पूरयित्वा व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वकमुत्थापयति –
कथमित्यादिना ।
तद्व्याचष्टे -
यथेति ।
अज्ञानाविशेषोऽतःशब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तावनुक्तिरिति यावत् ।
त्वदीयमज्ञानं कुतो हेतोर्मया ज्ञातव्यमित्याशङ्कामुद्भाव्यानन्तरवाक्येनोत्तरमाह –
कुत इत्यादिना ।
अतस्तव पात्रभूतस्यानुपदेशान्मदीयमज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामित्यर्थः । सभागपदं सप्तम्यन्तं राजविषयं प्रथमान्तं गौतमविषयमिति भेदः ।
गौतममागतं योगक्षेमार्थिनं बुद्ध्वा राजा प्रसन्नः सन्नुक्तवानित्याह –
तं होवाचेति ।
तर्हि कृतकृत्यस्य तव किमित्यागमनमित्याशङ्क्याऽऽह –
यामेवेति ।
कृच्छ्रीभावमभिनयति –
कथमिति ॥५ -६॥