गौतमस्य वचनं[यदि]राज्ञो दुःखीभावकारणं तर्हि प्रत्याख्यायतामित्याशङ्क्याऽऽह –
स हेति ।
किमिति तर्हि चिरं वसेत्युक्तवानित्यत आह –
न्यायेनेति ।
संवत्सरं वसेति यावत् । वक्तव्या विद्येति शेषः ।
कथं राज्ञो ब्राह्मणं प्रत्याज्ञां कुर्वतो न प्रत्यवायः स्यादित्याशङ्क्याऽऽह –
यत्पूर्वमिति ।
प्रत्याख्यानादिविषयं हेतुवचनम् । न केवलं विद्यावशादेव श्रैष्ठ्यं किन्तु जातितोऽपीत्यपेरर्थः ।
तर्हि ब्रूहि तां वाचमित्याशङ्क्याऽऽह –
तत्रेति ।
विद्याप्रवचने प्रस्तुते सतीति यावत् ।
यथेत्यस्यापेक्षितं पूरयति –
तथेति ।
प्रसिद्धमेव स्फोरयति –
तस्मादिति ।
ब्राह्मणानामनया विद्यया प्रशास्तृत्वस्य प्रागभावादिति यावत् ।
इतिशब्दोपात्तमर्थं कथयति –
क्षत्त्रियेति ।
उक्तप्रत्याख्यानादिकारणमतःशब्दार्थः ॥७॥