छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्थः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ १ ॥
असौ वाव लोको गौतमाग्निरित्यादि । इह सायम्प्रातरग्निहोत्राहुती हुते पयआदिसाधने श्रद्धापुरःसरे आहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते च अन्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अप्समवायित्वादप्शब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये । तयोरधिकरणः अग्निः अन्यच्च तत्सम्बन्धं समिदादीत्युच्यते । या च असावग्न्यादिभावना आहुत्योः, सापि तथैव निर्दिश्यते । असौ वाव लोकोऽग्निः हे गौतम — यथाग्निहोत्राधिकरणमाहवनीय इह । तस्याग्नेर्द्युलोकाख्यस्य आदित्य एव समित् , तेन हि इद्धः असौ लोको दीप्यते, अतः समिन्धनात् समिदादित्यः रश्मयो धूमः, तदुत्थानात् ; समिधो हि धूम उत्तिष्ठति । अहरर्चिः प्रकाशसामान्यात् , आदित्यकार्यत्वाच्च । चन्द्रमा अङ्गाराः, अह्नः प्रशमेऽभिव्यक्तेः ; अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते । नक्षत्राणि विस्फुलिङ्गाः, चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात् ॥

पञ्चाग्निसम्बन्धमवतार्य प्रथमपर्यायस्य तात्पर्यमाह –

इहेति ।

अयं लोको भूलोकस्तस्मिन्नित्यर्थः ।

आहुत्योरप्समवायित्वसिद्ध्यर्थं विशिनष्टि –

पय आदीति ।

तयोः श्रद्धात्वसिद्ध्यर्थं श्रद्धापुरःसरे इत्युक्तम् । तयोरधिकरणोऽग्निरित्यादिकल्पनोपयोगित्वेन विशेषणान्तरमादत्ते –

आहवनीयेति ।

तयोः स्वातन्त्र्यं परिहरति –

कर्त्रादीति ।

अधिकरणशब्दो भावप्रधानो धर्मिपरः । काल्पनिको द्युलोकाख्योऽग्निस्तत्सम्बन्धमिति तच्छब्दोऽग्निविषयः ।

अन्यच्चेत्युक्तं स्पष्टयति –

समिदादीति ।

आदिशब्दो धूमार्चिरङ्गारादिविषयः ।

पर्यायतात्पर्यमुक्त्वाऽऽक्षराणि व्याकरोति –

असावित्यादिना ।

इहेत्येतल्लोकनिर्देशः पूर्वेण सम्बध्यते । तदुत्थानादित्यत्र तच्छब्देनाऽऽदित्यो गृहीतः ॥१॥