अध्यात्माधिदैवविभागेन देवान्विशदयति –
यजमानेति ।
प्रत्ययविशेषत्वेन श्रद्धाया होम्यत्वानुपपत्तिरित्याशङ्क्य श्रद्धां व्याकरोति –
अग्निहोत्रेति ।
किञ्च प्रश्नप्रतिवचनयोरेकार्थत्वात्प्रश्ने चापां होम्यतया श्रुतत्वात्प्रतिवचनेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह –
पञ्चम्यामिति ।
अप्सु श्रद्धाशब्दस्य वृद्धव्यवहारप्रयोगाभावान्नैवमित्याशङ्क्याऽऽह –
श्रद्धेति ।
कथमापः श्रद्धाशब्देन प्रसिद्धवदुच्यन्ते तत्राऽऽह –
श्रद्धामिति ।
श्रद्धापूर्वकहोममुद्दिश्य पयःसोमाज्यादिसाधनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः सम्भवतीत्यर्थः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्यं चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः ।
तथाऽपि यजमानानां कथं फलवत्वमत आह –
यजमानाश्चेति ।
आहुती तच्छब्दवाच्ये प्राधान्यं मयडर्थः ।
तदेव स्पष्टयति –
आहुतिभावनाभाविता इति ।
तत्संस्तुतास्तदनुसारिणस्तदाश्रया इत्यर्थः ।
तद्भावितत्वफलमाह –
आहुतिरूपेणेति ।
तेनाऽऽकृष्टत्वं वशीकृतत्वम् ।
आहुतिभाविता इत्युक्तं स्पष्टयति –
श्रद्धेति ।
तत्पूर्वकं पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । सोमभूतास्तत्समीपस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः ।
कथं सोमसारूप्यं कर्मिणां फलमित्याशङ्क्याऽऽह –
तदर्थमिति ।
यजमानानां सोमभावो गतिमन्तरेण न सिध्यति । तथा च वक्तव्या गतिरित्याशङ्क्याऽऽह –
अत्रेति ।
आहवनीयोऽग्निः सप्तम्यर्थः ।
सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह –
तां त्विति ॥२॥