छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःअष्टमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ १ ॥
योषा वाव गौतमाग्निः । तस्या उपस्थ एव समित् , तेन हि सा पुत्राद्युत्पादनाय समिध्यते । यदुपमन्त्रयते स धूमः, स्त्रीसम्भवादुपमन्त्रणस्य । योनिरर्चिः लोहितत्वात् । यदन्तः करोति तेऽङ्गाराः, अग्निसम्बन्धात् । अभिनन्दाः सुखलवाः विस्फुलिङ्गाः, क्षुद्रत्वात् ॥

तस्या आहुतेर्गर्भः सम्भवतीत्युक्तं व्यक्तीकरोति –

एवमिति ।

यथोक्तया रीत्या श्रद्धादीनां रेतोन्तानां यानि द्युलोकादिषु योषिदन्तेष्वग्निषु हवनानि तेषामेकैकस्मिन्पर्याये यः क्रमो व्याख्यातस्तेनेति यावत् ।

कथं पुनरापो गर्भीभवन्ति भूतान्तराणामपि तुल्यो गर्भीभावस्तस्य पाञ्चभौतिकत्वादत आह –

तत्रेति ।

भूतानां मध्ये ।

किमित्यपां प्राधान्यविवक्षयैष निर्देशस्तासामेव केवलानां कार्यारम्भकत्वविवक्षा किं न स्यात्तत्राऽऽह –

न त्विति ।

भूतान्तरासहकृतानां केवलानामपामारम्भकत्वे यदारब्धं कार्य न तद्भोगायतनं तस्य जलबुद्बुदवदत्यन्तचञ्चलत्वादित्यर्थः ।

केवलानामप्त्वमुपेत्योक्तमिदानीं तदेव नास्तीत्याह –

न चेति ।

इतिशब्दस्तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति श्रुतेरिति हेत्वर्थः ।

सर्वस्य त्रिवृत्कृतत्वे कथं दृष्टो विशेषव्यपदेशो युज्येतेत्याशङ्क्याऽऽह –

त्रिवृत्कृतत्वेऽपीति ।

अपां प्राधान्यविवक्षया प्रश्नप्रतिवचनयोरप्शब्द इत्युक्तमुपसंहरति –

तस्मादिति ।

केवलानामपामसत्त्वादिति यावत् ।

कथमारम्भकेषु भूतेष्वपां बाहुल्यमवगतमित्याशङ्क्य कार्यद्वारा तदधिगतिरित्याह –

दृश्यते चेति ।

सोमादीनामब्बाहुल्येऽपि कथं पार्थिवशरीरस्य तद्बाहुल्यमित्याशङ्क्याऽऽह –

बहुद्रवं चेति ।

पञ्चमप्रश्ननिर्णयमुपसंहर्तुं पातनिकां करोति –

तत्रेति ।

योषाग्नाविति यावत् । गर्भीभूताः पुरुषवचसो भवन्तीति सम्बन्धः ॥१ -२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्याष्टमः खण्डः ॥