छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १ ॥
इति तु एवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यातः एकः प्रश्नः । यत्तु द्युलोकादिमां प्रत्यावृत्तयोराहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेण आविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयके उक्तम् , तत्प्रासङ्गिकमिहोच्यते । इह च प्रथमे प्रश्ने उक्तम् — वेत्थ यदितोऽधि प्रजाः प्रयन्तीति । तस्य च अयमुपक्रमः — स गर्भोऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानाम् उल्बावृतः उल्बेन जरायुणा आवृतः वेष्टितः दश वा नव वा मासान् अन्तः मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वा अथ अनन्तरं जायते ॥

उक्तार्थे वाक्यं योजयति –

इति त्विति ।

अपां गर्भीभावोक्तिमात्रेण पुरुषवचस्त्वस्य निर्णीतत्वादलमुत्तरग्रन्थेनेत्याशङ्क्य तस्य तात्पर्यमाह –

यत्त्विति ।

आहुत्योः सम्बन्धीति शेषः । प्रासङ्गिकं गर्भीभावोक्तिप्रसङ्गादागतमिति यावत् । इहेति प्रकृतश्रुत्युक्तिः ।

प्रासङ्गिकीं सङ्गतिं त्यक्त्वा साक्षादेव पूर्वोत्तरग्रन्थयोरस्ति सङ्गतिरिति तात्पर्यान्तरमाह –

इह चेति ।

प्रजानामूर्ध्वगमनमुत्तरत्र निरूपयिष्यते । तादर्थ्येन तासामुत्पत्तिरादावुच्यत इत्यर्थः ।

द्विधा सङ्गतिमुक्त्वा वाक्याक्षराणि योजयति –

स गर्भ इति ।

सोमवृष्ठ्यन्नरेतांस्यपेक्ष्य पञ्चमत्वं गर्भाख्यस्य परिणामस्य द्रष्टव्यम् । अपां प्रकृतत्वद्योतनार्थमाहुतीत्यादिविशेषणद्वयम् । अथवा पूर्वोक्तात्कालान्न्यू[ने]नाधिकेन वा कालेन यावता जन्तुः समग्राङ्गो जायते तावता कालेन कुक्षौ शयित्वेति सम्बन्धः । अनन्तरं योनितो निर्गमनकारणीभूतकर्माभिव्यक्तेरिति शेषः ।