उल्बावृतत्वं कुक्षौ चिरं शयनं योनितो निःसरणमित्येतदशेषमतिप्रसिद्धं किमिति श्रुत्या व्यपदिश्यते तत्राऽऽह –
उल्बावृत इत्यादीति ।
वैराग्यार्थत्वमस्य स्पुटयति –
कष्ट हीति ।
श्लेष्मादीत्यादिशब्देनासृक्पूयस्नायुमज्जादीनि गृह्यन्ते । तदनुलिप्तस्येति तच्छब्दो मूत्रपुरीषादिविषयः । शक्तिर्बुद्धिसामर्थ्यम् । बलं देहसामर्थ्यम् । वीर्यमिन्द्रियसामर्थ्यम् । तेजः शरीरगता कान्तिः । प्रज्ञा चेतना जीवधर्मः । चेष्टा प्राणधर्मः । ता निरुद्धा यस्य तस्येति विग्रहः ।
मातुरुदरे शयानस्य कष्टत्वेऽपि तदुदराद्योनिद्वारा निःसरणं सुखकरमिति चेन्नेत्याह –
तत इति ।
तद्ग्राहकत्वप्रकारमेवाभिनयति –
मुहूर्तमपीति ।
यन्मातुरन्तःशयनं मुहूर्तमपि दुःसहं तत्कथं दीर्घकालं शयितुं शक्यम् । कथं च दश वा नव वा मासानन्तः शयित्वा पुनर्योनिद्वारा दुष्करं निःसरणं दुःसह्यं स्यादिति वैराग्यं ग्राहयति –
श्रुतिरित्यर्थः ॥१॥