छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःनवमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ २ ॥
स एवं जातः यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन् कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुः तावज्जीवति । तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति — यदि चेज्जीवन् वैदिके कर्मणि ज्ञाने वा अधिकृतः — तमेनं मृतम् इतः अस्माद्ग्रामात् अग्नये अग्न्यर्थम् ऋत्विजो हरन्ति पुत्रा वा अन्त्यकर्मणे । यत एव इत आगतः अग्नेः सकाशात् श्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्योऽग्निभ्यः सम्भूतः उत्पन्नः भवति, तस्मै एव अग्नये हरन्ति स्वामेव योनिम् अग्निम् आपादयन्तीत्यर्थः ॥

जातस्य पुनरनर्थो नास्तीत्याशङ्क्याऽऽह –

स एवमिति ।

यावदायुषमित्येतद्व्याचष्टे –

पुनरिति ।

घटीयन्त्रवदूर्ध्वगमनार्थं वा निषिद्धं कर्म पौनःपुन्येनाऽऽचरन्यावत्कर्मणाऽर्जितमायुस्तावदस्मिन्देहे जीवति ततो म्रियते । तथा च जातस्य मृत्युध्रौव्यान्नास्ति सम्यग्ज्ञानं विना स्वस्तिप्राप्तिरित्यर्थः ।

अस्तु तर्हि मृतस्य कृतकृत्यतेत्याशङ्क्याऽऽह –

तमेतमिति ।

सर्वस्य तर्हि मृतस्य परलोकित्वं स्यादिति चेन्नेत्याह –

यदीति ।

तदा परलोकं प्रति कर्मणा निर्दिष्टमिति पूर्वेण सम्बन्धः युक्तं च तन्मृतस्याग्न्यर्थं नयनमित्याह –

यत इति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य नवमः खण्डः ॥