वेत्थ यदितोऽधि प्रजाः प्रयन्तीत्यस्य प्रश्नस्य प्रतिवचनं देवयानोपदेशेन व्याख्यातं संप्रति पितृयाणोपदेशेनापि ग्रामनिवासित्वाविशेषादित्याशङ्क्याऽऽह –
ग्राम इतीति ।
सपत्नीको हि वासो ग्राम इत्युच्यते । न च सपत्नीकत्वमूर्ध्वरेतसां युक्तं तथा च गृहस्थानामेव ग्रामविशेषणमसाधारणं; न च तदनर्थकमूर्ध्वरेतोभ्यस्तेषां व्यावृत्त्यर्थत्वादित्यर्थः ।
तदेव दृष्टान्तेन स्फुटयति –
यथेति ।
वेद्यन्तर्भावव्यासेधाद्बहिर्वेदीति विशेषणमादौ दत्तमिति प्रतीकोपादानं पुनर्व्याख्यातस्यानुवाद इत्यपुनरुक्तिः ।
इतिशब्दार्थमाह –
इत्येवंविधमिति ।
परिचरणं गुर्वादिशुश्रूषा । परित्राणं रक्षणम् । आदिपदं नित्यस्वाध्यायादिसंग्रहार्थम् । उपासते तात्पर्येणानुतिष्ठन्तीति यावत् ।
कथमितिशब्दस्य यथोक्तार्थत्वमिति ह स्मोपाध्यायः कथयतीतिवत्प्रकृतमात्रगामित्वादित्याशङ्क्याऽऽह –
इतिशब्दस्येति ।
देवयानाधिकृतेभ्यः सकाशात्पितृयाणाधिकृतेषु विशेषान्तरमाह –
नैत इति ।
अप्राप्तप्रतिषेधोऽयमिति शङ्कते –
कुत इति ।
प्राप्तिं दर्शयन्नुत्तरमाह –
अस्ति हीति ।
पूर्ववत्, यथा पूर्वं देवयानेन पथाऽवयवेभ्योऽवयविनः संवत्सरस्य प्राप्तिस्तथेति यावत् ॥३॥