छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥
मासेभ्यः पितृलोकं पितृलोकादाकाशम् आकाशाच्चन्द्रमसम् । कोऽसौ, यस्तैः प्राप्यते चन्द्रमाः ? य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानाम् , तदन्नं देवानाम् , तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते । ननु अनर्थाय इष्टादिकरणम् , यद्यन्नभूता देवैर्भक्ष्येरन् । नैष दोषः, अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् — न हि ते कबलोत्क्षेपेण देवैर्भक्ष्यन्ते कं तर्हि, उपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्यादिवत् , दृष्टश्चान्नशब्द उपकरणेषु — स्त्रियोऽन्नं पशवोऽन्नं विशोऽन्नं राज्ञामित्यादि । न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति । तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति । शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते । तदुक्तं पुरस्तात् — श्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति । ता आपः कर्मसमवायिन्यः इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति । अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति । तदारब्धेन च शरीरेण इष्टादिफलमुपभुञ्जाना आसते ॥

अन्नशब्दस्य यथाश्रुतमर्थं गृहीत्वा चोदयति –

नन्विति ।

औपचारिकमर्थं गृहीत्वा परिहरति –

नैष दोष इति ।

वृद्धप्रयोगमन्तरेण कथमुपकरणविषयोऽन्नशब्दो व्याख्यायते तत्राऽऽह –

दृष्टश्चेति ।

भवतु कर्मिणां देवान्प्रत्युपकरणत्वं तथाऽपि स्वयमुपभोगाभावादनर्थकमिष्टादिकरणमित्याशङ्क्याऽऽह –

न चेति ।

अन्योपभोग्यानामपि स्वयं भोगसत्त्वं तस्मादित्युच्यते । तथाऽपि तेषां मृतानामशरीरिणां कथं मुख्योपभोगः सम्भवतीत्याशङ्क्याऽऽह –

शरीरं चेति ।

कथमपां चन्द्रलोके तद्देहारम्भकत्वं तदाह –

यदुक्तमिति ।

अथापां सोमत्वमेवात्र प्रतीयते नतु कर्मिदेहारम्भकत्वमित्याशङ्क्याऽऽह –

ता आप इति ।

कर्मसमवायिनीनामपां कर्मापूर्वद्वारा यजमानदेहप्रतिष्ठानां कथं द्युलोकप्रवेशादि सम्भवतीत्याशङ्क्याऽऽह –

अन्त्यायां चेति ।

अद्भिरारब्धस्य शरीरस्य भोगायतनत्वं दर्शयति –

तदारब्धेनेति ॥४॥