छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५ ॥
यावत् तदुपभोगनिमित्तस्य कर्मणः क्षयः, सम्पतन्ति येनेति सम्पातः कर्मणः क्षयः यावत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः, तावत् तस्मिंश्चन्द्रमण्डले उषित्वा अथ अनन्तरम् एतमेव वक्ष्यमाणमध्वानं मार्गं पुनर्निवर्तन्ते । पुनर्निवर्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्च आसन्निति गम्यते । तस्मादिह लोके इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति ; तत्क्षये च आवर्तन्ते ; क्षणमात्रमपि तत्र स्थातुं न लभ्यते, स्थितिनिमित्तकर्मक्षयात् — स्नेहक्षयादिव प्रदीपस्य ॥

तद्देवानामन्नमित्यादि व्याख्याय तस्मिन्नित्यादि व्याचष्टे –

यावदिति ।

चन्द्रलोकस्तच्छब्दार्थः ।

यावत्संपातमुषित्वेति श्रूयते कथमन्यथा व्याख्यायते तत्राऽऽह –

सम्पतन्तीति ।

पुनःशब्दप्रयोगस्य तात्पर्यमाह –

पुनरिति ।

अथेत्यादिवाक्यार्थमुपसंहरति –

तस्मादिति ।

तच्छब्दपरामृष्टं हेतुं स्पष्टयति –

स्थितीति ।

यथा दीपस्य स्नेहक्षये स्थितिनिमित्ताभावादस्थितिस्तथा चन्द्रलोके स्थितिनिमित्तस्येष्टादेर्भोगेन क्षयात्तत्र स्थित्यसम्भवादावृत्तिरेवेत्यर्थः ।