छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
तस्मिन्यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ॥ ५ ॥
तत्र किं येन कर्मणा चन्द्रमण्डलमारूढास्तस्य सर्वस्यक्षये तस्मादवरोहणम् , किं वा सावशेष इति । किं ततः ? यदि सर्वस्यैव क्षयः कर्मणः, चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति ; तिष्ठतु तावत्तत्रैव, मोक्षः स्यात् , न वेति ; तत आगतस्य इह शरीरोपभोगादि न सम्भवति । ‘ततः शेषेण’ (गौ. ध. २ । २ । २९) इत्यादिस्मृतिविरोधश्च स्यात् । नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति, न च तेषां चन्द्रमण्डले उपभोगः, अतोऽक्षीणानि तानि ; यन्निमित्तं चन्द्रमण्डलमारूढः, तान्येव क्षीणानीत्यविरोधः ; शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः ; अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः ; विरुद्धानेकयोन्युपभोगफलानां च कर्मणाम् एकैकस्य जन्तोरारम्भकत्वसम्भवात् । न च एकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते, ब्रह्महत्यादेश्च एकैकस्य कर्मण अनेकजन्मारम्भकत्वस्मरणात् , स्थावरादिप्राप्तानां च अत्यन्तमूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासम्भवात् । गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः । तस्मात् न एकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः ॥

तस्मिन्यावत्सम्पातमुषित्वेत्यत्र विचारयति –

तत्रेति ।

तस्य चन्द्रमण्डलप्रापकस्यातिरिक्तस्य च सर्वस्य कर्मणः क्षये सतीति यावत् । सावशेषो भुक्तात्कर्मणः सकाशादतिरिक्तेन केनचित्कर्मणा सहितः सन्नित्यर्थः ।

पक्षद्वयेऽपि फलं पृच्छति –

किं तत इति ।

तत्राऽऽद्यं पक्षं पूर्वपक्षमुखेन प्रतिचिक्षिप्सुस्तत्फलमाह –

यदीति ।

तत्रैव दूषणान्तरमाह –

तिष्ठत्विति ।

चन्द्रमण्डलं सप्तम्यर्थः । ततश्चन्द्रमण्डलादित्येतत् । इहेत्येतल्लोकोक्तिः । आदिपदं शुभाशुभकर्मानुसारिसर्वव्यापारसंग्रहार्थम् ।

न केवलं सर्वकर्मक्षयपक्षे मुक्तिरेव विरुध्यते किन्तु स्मृतिश्चेत्याह –

तत इति ।

चन्द्रलोके भोक्तव्यस्य कर्मणो भोगेन क्षयादूर्ध्वं शेषेणानुपभुक्तेन कर्मणा जन्म प्रतिपद्यन्त इत्याद्या स्मृतिः सर्वकर्मक्षयपक्षे विरुध्यत इत्यर्थः ।

सर्वकर्मक्षयपक्षे पूर्वपक्षिणाऽन्यथावादिना प्रतिक्षिप्ते सावशेषपक्षमुत्तरवादी प्रतिपद्यते –

नन्विति ।

तान्यपि चन्द्रमण्डले भुक्तान्येवेति नावशेषोऽस्तीत्याशङ्क्याऽऽह –

न चेति ।

न हि सर्वकर्मवशाच्चन्द्रमण्डलप्राप्तिरिति भावः ।

तर्हि चन्द्रमण्डले कर्मफलोपभोगाभावादलं तदारोहेणेत्याशङ्क्याऽऽह –

यन्निमित्तमिति ।

अविरोधश्चन्द्रमण्डले भोगस्य शेषकर्मसद्भावस्य चेति शेषः ।

यत्तु ततः शेषेणेत्यादिस्मृतिविरोध इति तत्राऽऽह –

शेषशब्दश्चेति ।

निःशेषेष्वपि भुक्तेषु कर्मस्वभुक्तकर्मसु शेषशब्दो न विरुध्यतेऽभुक्तानां कर्मणां कर्मत्वस्य तुल्यत्वान्नात्र सावशेषपक्षे स्मृतिविरोधोऽस्तीत्यर्थः ।

यच्चन्द्रमण्डस्थलस्यैव मोक्षः स्यादिति तत्राऽऽह –

अत एवेति ।

शेषकर्मसद्भावादेवेति यावत् ।

इतश्च कर्मशेषसिद्धिरित्याह –

विरुद्धेति ।

आरम्भकत्वसम्भवादेकजात्युपभोग्यकर्मक्षयेऽपि कर्मशेषः सम्भवतीति शेषः ।

अथैकस्मिञ्जन्मनि सर्वाणि क्षीयन्ते कर्माशयस्यैकभविकत्वादित्याशङ्क्याऽऽह –

न चेति ।

ऐकभविकन्यायस्योपरिष्टान्निराकरिष्यमाणत्वादित्यर्थः ।

इतश्च शेषकर्मसिद्धिरित्याह –

ब्रह्महत्यादेश्चेति ।

“श्वसूकरखरोष्ट्राणाम्” इत्यादिस्मरणम् ।

घृतभाण्दस्नेहशेषवद्भुक्तस्यैव कर्मणः शेषात्पुनरावृत्तिर्भविष्यतीत्यत आह –

स्थावरादीति ।

शेषकर्मसिद्धौ हेत्वन्तरमाह –

गर्भभूतानामिति ।

कर्मशेषसद्भावमुपसंहरति –

तस्मादिति ।

एकस्यापि कर्मणोऽनेकजन्महेतुत्वं तच्छब्दार्थः ।