छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःदशमः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥
अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति ; मेघो भूत्वा उन्नतेषु प्रदेशेष्वथ प्रवर्षति ; वर्षधारारूपेण शेषकर्मा पततीत्यर्थः । त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इत्येवंप्रकारा जायन्ते ; क्षीणकर्मणामनेकत्वात् बहुवचननिर्देशः । मेघादिषु पूर्वेष्वेकरूपत्वात् एकवचननिर्देशः । यस्माद्गिरितटदुर्गनदीसमुद्रारण्यमरुदेशादिसंनिवेशसहस्राणि वर्षधाराभिः पतितानाम् , अतः तस्माद्धेतोः वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् — यतो गिरितटादुदकस्रोतसोह्यमाना नदीः प्राप्नुवन्ति, ततः समुद्रम् , ततो मकरादिभिर्भक्ष्यन्ते ; तेऽप्यन्येन ; तत्रैव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराम्भिर्मरुदेशे शिलातटे वा अगम्ये पतितास्तिष्ठन्ति, कदाचिद्व्यालमृगादिपीता भक्षिताश्चान्यैः तेऽप्यन्यैरित्येवंप्रकाराः परिवर्तेरन् ; कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् ; भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसम्बन्धो दुर्लभ एव, बहुत्वात्स्थावराणाम् — इत्यतो दुर्निष्क्रमणत्वम् । अथवा अतः अस्माद्व्रीहियवादिभावात् दुर्निष्प्रपतरं दुर्निर्गमतरम् । दुर्निष्प्रपरमिति तकार एको लुप्तो द्रष्टव्यः ; व्रीहियवादिभावो दुर्निष्प्रपतः, तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः ; यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते, अनेकत्वादन्नादानाम् । कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा, तदा रेतःसिग्भावं गतानां कर्मणो वृत्तिलाभः । कथम् ? यो यो हि अन्नमत्ति अनुशयिभिः संश्लिष्टं रेतःसिक् , यश्च रेतः सिञ्चति ऋतुकाले योषिति, तद्भूय एव तदाकृतिरेव भवति ; तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भाशयेऽन्तः प्रविष्टोऽनुशयी, रेतसो रेतःसिगाकृतिभावितत्वात् , ‘सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतम्’ (ऐ. उ. २ । १ । १) इति हि श्रुत्यन्तरात् । अतो रेतःसिगाकृतिरेव भवतीत्यर्थः । तथा हि पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिः, तस्माद्युक्तं तद्भूय एव भवतीति ॥

उन्नतेषु समुद्रादिव्यतिरिक्तेषु प्रदेशेष्विति यावत् । त इत्यनुशयिनो निर्दिश्यन्ते । इहेति पृथिवी कथ्यते । कथमस्मिन्वाक्ये बहुवचनेनानुशयिनां बहूक्त्या निर्देशः कृतस्तत्राऽऽह –

क्षीणकर्मणामिति ।

कथं तर्हि मेघो भूत्वा प्रवर्षतीत्यादावेकवचननिर्देशस्तत्राऽऽह –

मेघादिष्विति ।

ये पूर्वे मेघादयो नभोन्तास्तेषु प्रत्येकमभिमानिदेवतानामेकरूपत्वात्तदुपश्लिष्टानामनुशयिनामप्येकवचनेन निर्देशो युक्त इत्यर्थः ।

अतो वै खल्वित्यादिवाक्यं व्याचष्टे –

यस्मादिति ।

अनुशयिनां दुःशकं निःसरणमित्युक्तं प्रपञ्चयति –

यत इत्यादिना ।

मकरादिभिर्भक्षितानामनुशयिनां तेभ्यस्तत्समानजातीयत्वेन समुद्भवो भविष्यतीति चेन्नेत्याह –

तेऽपीति ।

मकरादयोऽपि जलचारिभिरन्यैर्भक्ष्यन्ते तथा च समुद्रे पतितानामनुशयिनां तत्रैव लयः स्यादित्यर्थः ।

नन्वेवमनुशयिनः समुद्रे लीना न ततः पुनरुद्धर्तुं शक्यन्ते तथा च कृतविनाशः स्यादित्याशङ्क्याऽऽह –

जलधरैरिति ।

समुद्राम्भोभिरिति तृतीया सहार्थे ।

तर्हि सर्पव्याघ्रोपभुक्तानामनुशयिनां तत्समानजातीयदेहभोगः स्यादिति चेन्नेत्याह –

भक्षिताश्चेति ।

यैस्तर्हि सर्पादयो भक्ष्यन्ते तेभ्यस्तत्समानजातीयत्वेनानुशयिनामुद्भवः स्यादिति चेन्नेत्याह –

तेऽपीति ।

तथाऽपि यथोक्तरीत्या परिवर्तनात्ते रेतःसिग्योगमपि यदा कदाचित्प्रपद्येरन्निति चेन्नेत्याह –

कदाचिदिति ।

तथाऽपि भक्ष्येषु जातानां रेतःसिग्योग सुलभः स्यादिति चेन्नेत्याह –

भक्ष्येष्वपीति ।

इतिशब्दो यच्छब्देन पूर्वेण सम्बध्यते ।

पूर्वमतःशब्दो हेतुपरतया व्याख्यातः संप्रति व्रीह्याद्यवधिवाचकत्वेन तं व्याचष्टे –

अथवेति ।

दुर्निष्प्रपततरमिति तकारसहिते पाठे सति विवक्षितमर्थमाह –

व्रीहियवादीति ।

तत्र हेतुमाह –

यस्मादिति ।

तर्हि तेषामन्तराले विशीर्णानां देहभागित्वाभावादनुशयवैयर्थ्यमित्याशङ्क्याऽऽह –

कदाचिदिति ।

काकतालीयया वृत्त्या यादृच्छिकन्यायेनेति यावत् ।

अनुशयाख्यस्य कर्मणो भाविदेहारम्भार्थत्वान्मुख्यं प्रश्नपूर्वकं विवृणोति –

कथमित्यादिना ।

अनुशयिनो रेतःसिगाकारभाक्त्वे हेतुमाह –

रेतस इति ।

तस्य रेतःसिगाकृत्या तदंशेन भावितत्वात्संस्कृतत्वात्तदङ्गसम्भूतत्वात्तद्रूपेण गर्भाशयमनुप्रविष्टोऽनुशयी रेतःसिगाकृतिर्भवतीत्यर्थः ।

रेतसो रेतःसिगङ्गसमुत्थत्वे प्रमाणमैतरेयकश्रुतिरित्याह –

सर्वेभ्य इति ।

रेतोरूपेण गर्भाशयं प्रविष्टस्य रेतःसिगाकारत्वमुक्तं निगमयति –

अत इति ।

अनुशयिनो रेतःसिगाकारत्वे लौकिकानुभवमनुकूलयति –

तथा हीति ।