उपभुक्तात्कर्मणः शेषेणेति सम्बन्धः –
कश्चिदिति ।
श्रौतौ वा स्मार्तो वा यौक्तिको वा लौकिको वेत्यर्थः ।
एतमेवाध्वानमिति प्रकृतमध्वानं प्रश्नपूर्वकं विशदयति –
कोऽसावित्यादिना ।
यथेतमित्युक्तमाक्षिपति –
नन्विति ।
किं यथेतमित्येतदेव न सम्भवति किं वा यथेतमेवेति नियमो नोपपद्यते तत्राऽऽद्यं दूषयति –
नैष दोष इति ।
द्वितीयं प्रत्याह –
न चेति ।
अत्रेति निवृत्तिरुक्ता ।
अनेवंविधमपीति ।
यथा गतिक्रमो दर्शितो न तथा निवृत्तिर्नियता किं तु विधान्तरेणापि सम्भवतीत्यर्थः ।
निवृत्तेः क्रमनियमाभावे कीदृशो नियमो विवक्षित इत्याशङ्क्याऽऽह –
पुनरिति ।
केनाभिप्रायेण तर्हि यथेतमित्युक्तमत आह –
अत इति ।
गतिक्रमवन्निवृत्तिक्रमे नियमाभावोऽतःशब्दार्थः । उक्तं च “यथेतमनेवं च” इति ।
निवृत्तिनियमे फलितमाह –
अत इति ।
परमात्मानं व्यावर्तयितुं भौतिकमित्युक्तम् ।
कथं पूर्वसिद्धाकाशतादात्म्यापत्तिरवरोहतां सिध्यतीत्याशङ्क्य तत्साम्यगमनमेव तद्भावापत्तिरित्युपचर्यते स्वाभाव्यापत्तिरिति न्यायादित्याह –
यास्तेषामिति ।
घृतस्य संस्थानं काठिन्यम् । तास्वाकाशभूतासु तत्परिवेष्टिताः कर्मिणोऽध्यवरोहन्तस्तद्भूता इव भवन्तीत्यर्थः ।
आकाशाद्वायुमित्यस्यार्थं साधयति –
ता अन्तरिक्षादिति ॥५॥