मतान्तरमुत्थापयति –
यत्त्विति ।
यावत्प्रवृत्तफलं कर्म न क्षीयते तावत्प्रवृत्तिप्रतिबन्धादन्यानि कर्माणि स्वफलं नाऽऽरभन्ते । मरणकाले तु प्रतिबन्धकाभावात्सर्वकर्माश्रयसङ्गातोपमर्देन तेषामुत्तरशरीरारम्भकत्वमविरुद्धमित्यर्थः ।
तथाऽपि कथं शेषकर्मसद्भावासिद्धिरित्यत आह –
तत्रेति ।
अनारब्धकर्मणां सर्वेषामुत्तरशरीरारम्भकत्वे सतीति यावत् ।
प्रायणकाले यानि कर्माण्यभिव्यक्तानि तान्येवोत्तरशरीरारम्भकाणीतरेषां तु न शरीरारम्भकत्वमिति दूषयति –
तदसदिति ।
मधुब्राह्मणोक्तेन न्यायेन सर्वस्य सर्वात्मकत्वाङ्गीकाराद्देहस्यापि तथात्वान्न सर्वात्मनोपमर्दोपपत्तिरित्यर्थः ।
उक्तमर्थमुपपादयितुं सामान्यन्यायमाह –
न हीति ।
सर्वं सर्वस्य कारणं कार्यं चेति न्यायेन सर्वस्य सर्वात्मकत्वे स्थिते सति कस्यचित्क्वचित्सर्वात्मनोपमर्दस्तथाऽभिव्यक्तिर्वा नोपपद्यते । प्रतीयमानोपमर्दादेर्देशविशेषादिकृतत्वादित्यर्थः ।
उक्तन्यायं प्रकृते योजयति –
तथेति ।
इतश्च कर्मशेषः सम्भवतीति क्रमवत्तायां दृष्टान्तमाह –
यथा चेति ।
पूर्वं क्रमेणानुभूतानि यानि मनुष्यादिजन्मानि तैरभिसंस्कृताः सम्पादिता विरुद्धा या भूयस्यो वासनास्तज्जातिविशेषप्रापकेन कर्मणा तस्मिन्नारभ्यमाणे न निरुध्यन्त इत्यर्थः ।
दार्ष्टान्तिकमाह –
तथेति ।
दृष्टान्तं विवृणोति –
यदि हीति ।
व्यवहितवासनोच्छेदेऽपि नाव्यवहितवासनोच्छिद्यते तथा चानन्तरजन्मोत्थवासनासामर्थ्यात् मर्कटशिशोर्यथोक्तकौशलमविरुद्धमित्याशङ्क्याऽऽह –
न चेति ।
किञ्च पूर्वप्रज्ञा चेत्यविशेषेण पूर्वजन्मार्जितवासना जीवमनुगच्छतीति श्रवणादव्यवहितपूर्वजन्मवासनैव तमन्वेतीति न शक्यं विशेषतो वक्तुमित्याह –
तं विद्येति ।
दृष्टान्तमुपपाद्य दार्ष्टान्तिकं निगमयति –
तस्मादिति ।
शेषकर्मसद्भावे फलितमाह –
यत इति ।