छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वादशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥
स कथमुवाचेति, आह — औपमन्यव हे कम् आत्मानं वैश्वानरं त्वमुपास्से इति पप्रच्छ । नन्वयमन्यायः — आचार्यः सन् शिष्यं पृच्छतीति । नैष दोषः, ‘यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामि’ (छा. उ. ७ । १ । १) इति न्यायदर्शनात् । अन्यत्राप्याचार्यस्य अप्रतिभावनवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नो दृष्टोऽजातशत्रोः, ‘क्वैष तदाभूत्कुत एतदागात्’ (बृ. उ. २ । १ । १६) इति । दिवमेव द्युलोकमेव वैश्वानरमुपासे भगवो राजन् इति ह उवाच । एष वै सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धो वैश्वानर आत्मा, आत्मनः अवयवभूतत्वात् । यं त्वम् आत्मानम् आत्मैकदेशम् उपास्से, तस्मात् सुतेजसो वैश्वानरस्य उपासनात् तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतम् आसुतं च अहर्गणादिषु तव कुले दृश्यते ; अतीव कर्मिणस्त्वत्कुलीना इत्यर्थः ॥

शिष्यो हि प्रष्टाऽऽचार्यस्तु प्रतिवक्तेति न्यायेन शङ्कते –

नन्विति ।

वाक्यशेषावष्टम्भेन दूषयति –

नैष दोष इति ।

बृहदारण्यकश्रुत्यालोचनायामपि नैतदन्याय्यमित्याह –

अन्यत्रापीति ।

आचार्यस्याजातशत्रोरिति सम्बन्धः ।

तस्याऽऽत्मत्वे हेतुमाह –

आत्मन इति ।

एकाहादिरूपोज्योतिष्टोमादिरहर्गणस्तत्र सुतं सोमरूपं लताद्रव्यमहीने प्रस्तुतं सत्रे त्वासुतमिति भेदः । तवेति पुनर्वचनमन्वयदर्शनार्थम् ॥१॥