छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःत्रयोदशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ २ ॥
किञ्च त्वामनु प्रवृत्तः अश्वतरीभ्यां युक्तो रथोऽश्वतरीरथः दासीनिष्को दासीभिर्युक्तो निष्को हारो दाशीनिष्कः । अत्स्यन्नमित्यादि समानम् । चक्षुर्वैश्वानरस्य तु सविता । तस्य समस्तबुद्ध्योपासनात् अन्धोऽभविष्यः चक्षुर्हीनोऽभविष्यः यन्मां नागमिष्य इति पूर्ववत् ॥

अस्त्यन्नमित्यादि चक्षुष्ट्वेतदित्यतः प्राक्तनमिति शेषः । चक्षुष्ट्वेतदित्यादिवाक्यं व्याचष्टे –

चक्षुरित्यादिना ।

तत्रापि तात्पर्यं यथापूर्वं द्रष्टव्यमित्याह –

पूर्ववादिति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥