छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रम्पद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ १ ॥
अथ ह उवाच इन्द्रद्युम्नं भाल्लवेयम् — वैयाघ्रपद्य कं त्वमात्मानमुपास्से इत्यादि समानम् । पृथग्वर्त्मा नाना वर्त्मानियस्य वायोरावहोद्वहादिभिर्भेदैः वर्तमानस्य सोऽयं पृथग्वर्त्मा वायुः । तस्मात् पृथग्वर्त्मात्मनो वैश्वानरस्योपासनात् पृथक् नानादिक्काः त्वां बलयः वस्त्रान्नादिलक्षणा बलयः आयन्ति आगच्छन्ति । पृथग्रथश्रेणयः रथपङ्क्तयोऽपि त्वामनुयन्ति ॥

सत्ययज्ञोपरमानन्तरमित्यथशब्दार्थः । पृथगित्यतः प्राक्तनमादिपदेन गृहीतम् । पृथग्वर्त्मेति प्रतीकमादाय व्याचष्टे –

नानेति ।

आभिमुख्येनाऽऽगच्छन्नावहः । ऊर्ध्वेन वहतीत्युद्वहः ।

तस्मात्त्वमित्यादि व्याचष्टे –

तस्मादिति ।

नानादिक्का नानाविधासु दिक्षुभवा इत्येतत् ॥१॥

प्रसिद्धाग्निहोत्रनिन्दाद्वारेण वैश्वानरविदो यथोक्तमग्निहोत्रमवश्यकर्तव्यतायै स्तौति –

स यः कश्चिदित्यादिना ॥१॥