सत्ययज्ञोपरमानन्तरमित्यथशब्दार्थः । पृथगित्यतः प्राक्तनमादिपदेन गृहीतम् । पृथग्वर्त्मेति प्रतीकमादाय व्याचष्टे –
नानेति ।
आभिमुख्येनाऽऽगच्छन्नावहः । ऊर्ध्वेन वहतीत्युद्वहः ।
तस्मात्त्वमित्यादि व्याचष्टे –
तस्मादिति ।
नानादिक्का नानाविधासु दिक्षुभवा इत्येतत् ॥१॥