छान्दोग्योपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्दशः खण्डः
आनन्दगिरिटीका (छान्दोग्य)
 
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्य उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ २ ॥
अत्स्यन्नमित्यादि समानम् । प्राणस्त्वेष आत्मन इति ह उवाच । प्राणस्ते तव उदक्रमिष्यत् उत्क्रान्तोऽभविष्यत् , यन्मां नागमिष्य इति ॥

अस्त्यन्नमित्यादि समानमित्यत्राऽऽदिपदमुपास्त इत्यन्तवाक्यसंग्रहार्थम् । उत्तरवाक्येऽप्यभिप्रायसाम्यं मत्वाऽऽह –

प्राणस्त्विति ॥२॥

इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥