वैश्वानरोपासकः सर्वात्मा सन्नन्नमत्तीत्येवं कस्माद्धेतोर्निश्चितमित्याशङ्कामनूद्य हेतुप्रदर्शनपरत्वेनोत्तरत्वेनोत्तरं वाक्यमुपादत्ते –
कस्मादित्यादिना ।
वैश्वानरस्य सर्वात्मत्वात्तदुपासकस्यापि तदात्मतया सर्वात्मत्वादसौ सर्वात्मा भूत्वा सर्वत्रान्नमत्तीति युक्तमित्यर्थः ।
तस्येत्यादिवाक्यस्य तात्पर्यान्तरमाह –
अथ वेति ।
प्रधानविद्यामुक्त्वा तदङ्गप्राणाग्निहोत्रं दर्शयितुकामो भूमिकां करोति –
अथेति ।
संपादयितुमिच्छन्नादौ तदङ्गान्यश्वपतिराहेत्यर्थः । वेदिरिति स्थण्डिलमात्रं गृह्यते । अग्निहोत्रे तावन्मात्रस्योपयुक्तत्वादितरस्य दर्शपूर्णमासाद्यङ्गत्वात् । वेद्यामास्तीर्यन्ते ये दर्भा[स्ते] बर्हिःशब्देनोच्यन्ते । हृदयस्य गार्हपत्यत्वं मनःप्रणयनहेतुत्वात्, प्रणीतमुत्पन्नमिवेत्यर्थः ।
आहवनीयसादृश्यं च मुखस्य दर्शयति –
आहवनीय इति ॥२॥